पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे

सदृशं श्लाघनीयं च यदुक्तं भरत त्वया । वचनं भ्रातृवात्सल्यादनुरूपं तथैव तत् ।।
नित्यं ते कभुलुब्धस्य विष्ठतो भ्रातृसौहृदे । आर्यमार्ग प्रपन्नस्य नानुमन्येत कः पुमान् ।।
मन्त्रिणां वचनं श्रुत्वा यथाभिलषितं प्रियम् । अत्रवीत्सारथिं वाक्यं रथो मे युज्यतामिति ॥
प्रहृष्टवदनः सर्वा माः समभिवाच सः । आरुरोह रथं श्रीमाशत्रुनेन समन्वितः ॥
आरुह्य च रथं शीघ्रं शत्रुघ्नभरतावुभौ । ययतुः परमप्रीतौ वृतौ मन्त्रिपुरोहितैः ।।
अप्रवो गुरवस्तत्र वसिष्ठप्रमुखा द्विजाः । प्रययुः प्राङ्मुखाः सर्वे नन्दिप्रामो यतोऽभवत् ॥
बलं च तपनाहूत गजाश्वरथसंकुलम् । प्रययौ भरते याते सर्वे च पुरवासिनः ।।
११
रथस्थः स हि धर्मात्मा भरतो भ्रातृवत्सलः । नन्दियाम ययौ तूर्ण शिरस्याधाय पादुके । १२
ततस्तु भरतः क्षिप्रं नन्दिप्रामं प्रविश्य सः । अवतीर्य रथात्तर्ण गुरूनिदमुवाच ह ॥ १३
एतद्राज्यं मम भ्रात्रा दत्तं सन्न्यासवत् स्वयम् । योगक्षेमवहे तस्य पादुके हेमभूषिते ।। १४
भरतः शिरसा कृत्वा सन्यासं पादुके ततः । अब्रवीदुःखसंतप्तः सर्व प्रकृतिमण्डलम् ।। १५
छत्र धारयत क्षिप्रमार्यपादाविमौ मतौ । आभ्यां राज्ये स्थितो धर्मः पादुकाभ्यां गुरोर्मम ॥ १६
भ्रात्रा हि मयि सन्न्यासो निक्षिप्तः सौहृदादयम् । तमिमं पालयिष्याम राघवागमनं प्रति ॥ १७
क्षिप्रं संयोजयित्वा तु राघवस्य पुनः स्वयम् । चरणौ तौ तु रामस्य द्रक्ष्यामि सहपादुकौ ॥ १८
ततो निक्षिप्तमारोऽहं राघवेण समागतः । निवेद्य गुरुवे राज्यं भजिष्ये गुरुवर्तिताम् ।। १९
राघवाय च सन्न्यासं दस्वेमे करपादुके । राज्यं चेदमयोभ्यां च धूतपापो भवाम्यहम् ।।
अभिषिके तु काकुत्स्थे प्रहृष्टमुदिते जने । प्रीतिर्मम यशश्चैव भवेद्राज्याधतुर्गुणम् ।। २१
एवं तु विलपन दीनो भरतः स महायशाः । नन्दिप्रामेऽकरोद्राज्य दुःखितो मन्त्रिभिः सह ।। २२
स वल्कलजटाधारी मुनिवेषधरः प्रभुः । नन्दिप्रामेऽवसद्वीरः ससैन्यो भरतस्तदा ॥ २३
रामागमनमाकान् भरतो भ्रारंवत्सलः । भ्रातुर्वचनकारी च प्रतिज्ञापारगस्तथा ।।
पादुके त्वभिषिच्याथ नन्दिप्रामेऽवसत्तदा । सवालव्यजनं छत्र धारयामास स स्वयम् ।।
भरतः शासनं सर्व पादुकाभ्यां न्यवेदयत् । ततस्तु भरतः श्रीमानभिषिच्यार्यपादुके ।। २६
तदधीनस्सदा राज्यं कारयामास सर्वदा।।
यदा हि यत् कार्यमुपैति किंचिदुपायनं चोपडतं महाईम् ।
स पादुकाभ्यां प्रथमं निवेद्य चकार पश्चादरतो यथावत् ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाय चतुर्विशतिसहस्रिकायां संहितायाम् अयोध्याकाण्डे नन्दिमामानवामो नाम पञ्चदशाधिकशततमः सर्ग: