पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चदशाधिकशततमः सर्गः.

सहसा युद्धशौण्डेन हयारोहेण वाहिताम् । निक्षिप्तभाण्डामुत्सृष्टां किशोरीमिव दुर्बलाम् ॥
शुष्कतोयां महामत्त्यैः कूमैश्च बहुभिर्वृताम् । प्रभिन्नतटविस्तीर्णा वापीमिय हतोत्पलाम् ।।
पुरुषस्याप्रष्टस्य प्रतिषिद्धानुलपेनाम् । संतप्तामिव शोकेन गात्रयष्टिमभूषणाम् ।।
प्राकृषि प्रविगाढायां प्रविष्टस्याघ्रमण्डलम् । प्रच्छन्नां नीलजीमूतैर्भास्करस्य प्रभामिव ।।
निहतां प्रतिसैन्येन बडबामिव पालिताम् । भरतस्तु रथस्थः सम्श्रीमान् दशरथात्मजः ॥
वाहयन्तं रथं श्रेष्ठं सारथिं वाक्यमब्रवीत् । किं नु खल्वद्य गम्भीरो मूर्छितो न निशम्यते ।।
यथापुरमयोध्यायां गीतवादित्रनिःस्वनः । वारुणीमदगन्धश्च माल्यगन्धश्च मूर्छितः ।।
धूपितागरुगन्धश्च न प्रवाति समन्ततः । यानप्रवरघोषश्च स्निग्धश्च हयनिःस्वनः ।।
प्रमत्तगजनादश्च महांश्च रथनिःस्वनः । नेदानीं श्रूयते पुर्यामस्यां रामे विवासिते ।।
चन्दनागरुगन्धाश्च महाश्चि नवस्रजः । गते हि रामे तरुणाः संतप्ता नोपभुञ्जते ।।
बहिर्यात्रां न गच्छन्ति चित्रमाल्यधरा नराः । नोत्सवाः संप्रवर्तन्ते रामशोकार्दिते पुरे ॥
सह नूनं मम भ्रात्रा पुरस्यास्य द्युतिर्गता । न हि राजत्ययोध्येयं सासारेवार्जुनी क्षपा ।।
कदा नु खलु मे भ्राता महोत्सव इवागतः । जयिष्यत्ययोध्यायां हपं ग्रीष्म इवाम्बुदः ॥
तरुणैश्चारवेषैश्च नरैरुन्नतगामिभिः । संपतद्भिरयोध्यायां नाभिभान्ति महापथाः ।
एवं बहुविधं जल्पन विवेश वसतिं पितुः । तेन हीनां नरेन्द्रेण सिंहहीनां गुहामिव ।।
तदा तदन्तःपुरमुझितप्रभं सुरैरिवोत्सृष्टमभास्करं दिनम् ।
निरीक्ष्य सर्व तु विविक्तमात्मवान मुमोच बाष्पं भरतः सुदुःखितः ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहस्रिकायां संहितायाम् अयोध्याकाण्डे अयोध्याप्रवेशो नाम चतुर्दशाधिकशततमः सर्गः

पञ्चदशाधिकशततमः सर्गः नन्दिग्रामनिवासः

ततो निक्षिप्य मातः स अयोध्यायां दृढव्रतः । भरतः शोकसंतप्तो गुरूनिदमथाब्रवीत् ।।
नन्दिग्रामं गमिष्यामि सर्वानामन्त्रयेऽद्य वः । तत्र दुःखमिदं सर्व सहिष्ये राघवं विना ।।
गतश्च हि दिवं राजा वनस्थश्च गुगर्मम । रामं प्रतीक्षे राज्याय स हि राजा महायशाः ।।
एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मनः । अब्रुवन् मन्त्रिणः सर्वे वसिष्ठश्च पुरोहितः ॥