पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२८९ त्रयोदशाधिकशततमः सर्गः

अथानुपूर्व्यात् प्रतिनन्द्य तं जनं गुरुश्च मन्त्रिप्रकृतीस्तथानुजौ ।
व्यसर्जयद्राघववंशवर्धनः स्थिरः स्वधर्मे हिमवानिवाचलः ॥
तं मातरो बाष्पगृहीतकण्ठ्यो दुःखेन नामन्त्रयितु हि शेकुः ।
स त्वेव मातृरभिवाद्य सर्वा रुदन कुटी स्वां प्रविवेश रामः ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायाम् संहितायाम् अयोध्याकाण्डे पादुका प्रदानं नाम द्वादशाधिकशततमः सर्ग: त्रयोदशाधिकशततमः सर्गः पादुकाग्रहणम्

ततः शिरसि कृत्वा तु पादुके भरतस्तदा । आरुरोह रथं दृष्टः शत्रुघ्नेन समन्वितः ॥
वसिष्ठो वामदेवश्च जाबालिश्च दृढव्रतः । अग्रतः प्रययुः सर्वे मन्त्रिणो मन्त्रपूजिताः ।।
मन्दाकिनी नदी पुण्यां प्राइमुम्वास्ने ययुस्तदा । प्रदक्षिणं च कुर्वाणाचित्रकूट महागिरिम् ।।
पश्यन् धातुसहस्राणि रम्याणि विविधानि च । प्रययो तस्य पार्श्वन ससैन्यो भरतस्तदा'
अदूराच्चित्रकूटस्य ददर्श भग्नस्तदा । आश्रमं यत्र म मुनिर्भरद्वाजः कृतालयः ।।
स तमाश्रममागम्य भरद्वाजन्य बुद्धिमान ! अवतीर्य रथात् पादौ ववन्दे कुलनन्दनः ।।
ततो हष्टो भरद्वाजो भरतं वाक्यमब्रवीत् । अपि कृत्यं कृतं तात रामेण च समागतम् ।।
एवमुक्तस्तु भरतो भरद्वाजेन धीमता । प्रत्युवाच भरद्वाज भरनो भ्रातृवत्सलः ।।
स याच्यमानो गुरुणा मया च दृढविक्रमः । राघवः परमप्रीतो वसिष्टं वाक्यमब्रवीत् ॥
पितुः प्रतिक्षा तामेव पालयिष्यामि तत्त्वतः । चतुर्दश हि वर्षाणि या प्रतिज्ञा पितुर्मम ।।
एवमुक्तो झो वसिष्ठः प्रत्युवाच ह । वाक्यज्ञो वाक्यकुशल राघवं वचनं महत् ।।
एते प्रयच्छ मंदृष्टः पादुके हेमभूपिते । अयोध्यायां महाप्राज्ञ योगक्षेमकरे तव ॥
एवमुक्तो वसिष्ठेन राघवः प्राङ्मुखः स्थितः । पादुके अधिरु|ते मम राज्याय वै ददौ ।।
निवृत्तोऽहमनुज्ञातो रामेण सुमहात्मना । अयोध्यामेव गच्छामि गृहीत्वा पादुके शुभे ।।
एतच्छ्रुत्षा शुभं वाक्यं भरतस्य महात्मनः । भरद्वाजः शुभतरं मुनिर्वाक्यमुवाच तम् ।।
नैतचित्र नरव्याघ्र शीलनविदां वरे' । यदार्य त्वयि तिष्ठेत्तु निम्नोत्सृष्टमिवोदकम् ।।
अनृणः स महाबाहुः पिता दशरथस्तव । यस्य त्वमीदृशः पुत्रो धर्मज्ञो धर्मवत्सलः ।।
तमृर्षिं तु महात्मानमुक्तवाक्यं कृताञ्जलिः । आमन्त्रयितुमारेगे चरणावुपगृह्य च ॥