पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२८८ श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे

स धन्यो यस्य पुत्रौ द्वौ धर्मज्ञौ धर्मविक्रमौ । श्रुत्वा वयं हि संभाषामुभाभ्यां स्पृहयामहे ।। ३
ततस्त्वृषिगणाः क्षिप्रं दशग्रीववधैषिणः । भरतं राजशार्दूलमित्यूचुः संगता वचः ।।
कुलेजात महाप्राज्ञ महावृत्त महायशः । ग्राह्यं रामस्य वाक्यं ते पितरं यद्यवेक्षसे ।।
सदानृणमिमं रामं वयमिच्छामहे पितुः । अनृणत्वाश्च कैकेय्याः स्वर्ग दशरथो गतः ॥
एतावदुक्त्वा वचनं गन्धर्वाः समहर्पयः । राजर्षयश्चैव तदा सर्व स्वां स्वां गतिं गताः ।।
झादितस्तेन वाक्येन शुभेन शुभदर्शनः । रामः सदृष्टवदनस्तानृषीनभ्यपूजयत् ।।
त्रस्तगात्रस्तु भरतः स वाचा सन्जमानया । कृताञ्जलिरिदं वाक्यं राघवं पुनरप्रवीत् ।।
राजधर्ममनुप्रेक्ष्य कुलधर्मानुसंततिम् । कर्तुमर्हमि काकुत्स्थ मम मातुश्च याचनाम् ।। १०
रक्षितुं सुमहद्राज्यमहमेकस्तु नोत्महे । पौरजानपदांश्चापि रकान् रक्षयितुं तथा ॥ ११
शातयश्च हि योधाश्च मित्राणि सुहृदश्च नः । त्वामेव प्रतिकान्ते पर्जन्यमिव कर्पकाः ॥ १२
इदं राज्यं महाप्राज्ञ स्थापय प्रतिपद्य हि । शक्तिमानसि काकुत्स्थ लोकस्य परिपालने ॥ १३
इत्युक्त्वा न्यपतद्धातुः पादयोर्भरतन्तदा । भृशं संप्रार्थयामाम राममेव प्रियंवदः ।।
तमई भ्रातरं कृत्वा रामो वचनमब्रवीत । श्यामं नालनपत्राक्ष मनहंसस्वरः स्वयम् ॥ १५
आगता त्वामियं बुद्धिः स्वजा वैनयिकी च या । भृशमुत्सहसे तात क्षितुं पृथिवीमपि ।
अमात्यैश्च सुद्भिश्च बुद्धिमद्भिश्च मन्त्रिभिः । सर्वकार्याणि संमन्त्र्य मुमहान्याप कारय ।।
लक्ष्मीश्चन्द्रादपेयाद्वा हिमवान वा हिमं त्यजेत् । अतीयान् सागरो वेलां न प्रतिज्ञामहं पितुः ।। १८
कामाद्वा तात लोभाठा मात्रा तुभ्यमिदं कृतम । न तन्मनमि कर्तव्यं वर्तितव्यं च मातृवत् ।। १९
एवं ब्रुवाणं भरतः कौसल्यामुतमब्रवीत्। तेजसादिन्यमंकाशं प्रतिपञ्चन्द्रदर्शनम् ।। २०
अधिरोहार्य पादाभ्यां पादुके हेमभूषिते । एते हि सर्वलोकस्य योगक्षेमं विधास्यतः॥ २१
सोऽधिरुह्य नरव्याघ्रः पादुके व्यवमुच्य च । प्रायच्छन मुमहातेजा भरताय महात्मने । २२
स पादुकं संप्रणम्य राम वचनमब्रवीत् । चतुर्दश हि वर्षाणि जटाचीग्धरो यहम ।। २३
फलमूलाशनो वीर भवेयं रघुनन्दन । तवागमकनमाकाङ्कन वसन धै नगराबहिः ।।
तव पादुकयोन्यम्य राज्यतन्त्र परंतप । चतुर्दशे हि संपूर्ण वर्षेऽहनि रघूत्तम ।।
न द्रक्ष्यामि यदि त्वां तु प्रवेक्ष्यामि हुनाशनम । तथेति च प्रतिज्ञाय तं परिष्वज्य मादरम् ।। २६
शत्रुघ्नं च परिष्वज्य भरतं चेदमब्रवीत् । मातरं रक्ष कैकयी मा रोपं कुरु तां प्रति ।।
मया च सीनया चैव शतोऽसि रघुसत्तम । इत्युक्त्वाश्रुपरीनाक्षो भ्रातरं विससर्ज ह ॥
२८
स पादुकं ते भरतः प्रतापवान् स्वलंकने संपरिगृह्य धर्मवित् ।
प्रदक्षिणं चैव चकार राघवं चकार चैवोत्तमनागमूर्धनि ।।