पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

दशाधिकशततमः सर्गः २८५ दशाधिकशततमः सर्गः इक्ष्वाकुवंशकीर्तनम्

क्रुद्धमाज्ञाय रामं तु वसिष्टः प्रत्युवाच ह । जाबालिरपि जानीते लोकस्यास्य गतागतिम् ।।
निवर्तयितुकामस्तु त्वामेतद्वाक्यमुक्तवान् । इमां लोकसमुत्पत्तिं लोकनाथ निबोध मे ॥
सर्वं सलिलमेवासीत् पृथिवी यत्र निर्मिता । ततः समभवद्ब्रह्मा स्वयंभूर्दैवतैः सह ।।
स वराहस्ततो भूत्वा प्रोज्जहार वसुंधराम् । असृजश्व जगत् सर्व सह पुत्रैः कृतात्मभिः ।।
आकाशप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः । तस्मान्मरीचिः संजज्ञे भरीचेः कश्यपः सुतः ।।
विवस्वान् कश्यपानझे मनुर्वैवस्वतः सुतः । स तु प्रजापतिः पूर्वमिक्ष्वाकुस्तु मनोः सुतः ।।
यस्येयं प्रथमं दत्ता समृद्वा मनुना मही । तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम् ।।
इक्ष्वाकोस्तु सुतः श्रीमान कुक्षिरित्येव विश्रुतः । कुक्षेरथात्मजो वीरो विकुक्षिरुदपद्यत ।।
विकुक्षेन्तु महातेजा बाणः पुत्रः प्रतापवान् । बाणम्य तु महाबाहुरनरण्यो महायशाः ॥
नानाष्टिबभूवास्मिन्न दुर्भिक्षं सतां वरे । अनरण्ये महाराजे तस्करो नापि कश्चन ।।
अनरण्यान्महाबाहुः पृथू राजा बभूव ह । तस्मात्पृथोर्महाराजत्रिशङफुरुदपद्यत ।।
स सत्यवचनाद्वीरः सशरीरो दिवं गतः । त्रिशङ्कोरभवत्सू नुर्दुन्धुमारो महायशाः॥
दुन्धुमारान्महातेजा युवनाश्वो व्यज्ञायत । युवनाश्वसुतः श्रीमान मान्धाता समपद्यत ।।
मान्धातुस्तु महातेजाः सुसन्धिरुदपद्यत । सुसन्धेरपि पुत्रौ द्वौ ध्रुवसन्धिः प्रसेनजित् ।।
यशस्वी ध्रुवसन्धेस्तु भरतो रिपुसूदनः । भरतात्तु महाबाहोरसितो नाम जायत ।।
यस्यैते प्रतिराजान उदपद्यन्त शत्रवः । हैहयास्तालजवाश्च भूराश्च शशिबिन्दवः ।।
तांस्तु सर्वान् प्रतिव्यूह्य युद्धे राजा प्रवासितः । स च शैलवरे रम्ये बभूवाभिरतो मुनिः ॥
द्वे चास्य भार्ये गर्भिण्यौ बभूवतुरिति श्रुतिः । एका गर्भविनाशाय सपल्यै गरळ ददौ ।
भार्गवश्च्यवनो नाम हिमवन्तमुपाश्रितः । तमृपिं समुपागम्य कालिन्दी त्वभ्यवादयत् ॥
स तामभ्यवदद्विषो वरेप्सु पुत्रजन्मनि । पुत्रस्ते भविता देवि महात्मा लोकविश्रुतः ।।
धार्मिकश्च सुशीलश्च वंशकारिसूदनः । कृत्वा प्रदक्षिणं सा तु मुनि तमनुमान्य च ॥
पद्मपत्रसमानाक्षं पद्मगर्भसमप्रभम् । ततः सा गृहमागम्य देवी पुत्रं व्यजायत ।।
सपन्या तु गरस्तस्यै दत्तो गर्भजिघांसया । गरेण सह तेनैव जातः स सगरोऽभवत् ।।
स राजा सगरो नाम यः समुद्रमखानयत् । इष्ट्वा पर्वणि वेगेन त्रासयन्तमिमाः प्रजाः ।।
असमञ्जस्तु पुत्रोऽभून सगरस्येति नः श्रुतम् । जीवन्नेव स पित्रा तु निरस्तः पापकर्मकृत् ।।
अंशुमानिनि पुत्रोऽभूदसमञ्जस्य वीर्यवान् । दिलीपोंऽशुमतः पुत्रो दिलीपस्य भगीरथः ।।