पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२८४ श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे

वनवासं वसन्नेवं शुचिनियतभोजनः । मूलैः पुप्पैः फलैः पुण्यैः पितॄन् देवांश्च तर्पयन् ।
सन्तुष्टपञ्चवर्गोऽहं लोकयात्रां प्रवर्तये । अकुहः श्रद्दधानः सन् कार्याकार्यविचक्षणः ।।
कर्मभूमिमिमां प्राप्य कर्तव्यं कर्म यच्छुभम् । अनिर्वायुश्च सोमश्च कर्मणां फलभागिनः॥
शतं ऋतूनामात्य देवराट् त्रिदिवं गतः । तपास्युमाणि चास्थाय दिवं याता महर्षयः ।।
अमृध्यमाणः पुनरुग्रतेजा निशम्य तन्नास्तिकहेतुवाक्यम् ।
अथाब्रवीत्तं नृपतेस्तनूजो विगर्हमाणो वचनानि तस्य ।।
सत्यं च धर्म च पराक्रमं च भूतानुकम्पा प्रियवादितां च ।
द्विजातिदेवातिथिपूजनं च पन्थानमाहुत्रिदिवस्य सन्तः ।।
तेनैवमाशाय यथावदर्थमेकोदयं संप्रतिपद्य विप्राः ।
धर्मं चरन्तः सकलं यथावत् कान्ति लोकागममप्रमत्ताः ॥
निन्दाम्यहं कर्म पितुः कृतं तद्यस्त्वामगृह्णाद्विपमस्थबुद्धिम् ।
बुद्धथानयैवंविधया चरन्तं सुनास्तिकं धर्मपथादपेतम् ।।
यथा हि चोरः स तथा हि बुद्धस्तथागतं नास्तिकमत्र विद्धि ।
तस्माद्धि यः शङ्कयतमः प्रजानां न नास्तिकेनाभिमुखो बुधः स्यात् ॥
त्वत्तो जनाः पूर्वतरेऽवराश्च शुभानि कर्माणि बहूनि चक्रुः ।
जित्वा सदेमं च परं च लोकं तस्माद्विजाः स्वस्ति हुतं कृतं च ।।
धर्मे रताः सत्पुरुषैः समेतास्तेजस्विनो दानगुणप्रधानाः ।
अहिंसका वीतमलाश्च लोके भवन्ति पूज्या मुनयः प्रधानाः ।।
इति ब्रुवन्तं वचनं सरोपं रामं महात्मानमदीनसत्त्वम् ।
उवाच तथ्यं पुनरास्तिकं च सत्यं वचः सानुनयं च विप्रः ॥
न नास्तिकानां वचनं ब्रवीम्यहं न नास्तिकोऽहं न च नास्ति किंचन ।
समीक्ष्य कालं पुनरास्तिकोऽभवं भवेय काले पुनरेव नास्तिकः ।।
स चापि कालोऽयमुपागतः शनैर्यथा मया नास्तिकवागुदीरिता ।
निवर्तनाथ तव राम कारणात् प्रसादनार्थ च मयैतदीरितम् ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहस्रिकायां संहितायाम् अयोध्याकाण्डे सत्यप्रशंसा नाम नवाधिकशततमः सर्ग: