पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्ताधिकशततमः सर्गः २८१

तदद्भुतं स्थैर्यमवेक्ष्य राघवे समं जनो हर्पमवाय दुःखितः ।
न यात्ययोध्यामिति दुःखितोऽभवत स्थिरप्रतिज्ञत्वमवेक्ष्य हर्पितः ।।
तमृत्विजो नैगमयूथवल्लभारतथा विसंशाश्रुकलाश्च मातरः।
तथा जुवाणं भरतं प्रतुष्टुवुः प्रणम्य रामं च ययाचिरे सह ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहस्रिकायां महितायाम् अयोध्याकाण्डे भरतवचनं नाम पडधिकशततमः सर्गः सप्ताधिकशततमः सर्गः रामप्रतिवचनम्

पुनरेवं ब्रुवाणं तं भरतं लक्ष्मणाग्रजः । प्रत्युवाच ततः श्रीमाञ्जातिमध्येऽभिमत्कृतः'
'उपपन्नमिदं वाक्यं यत्त्वमेवमभापथाः । जातः पुत्रो दशरथान कैकेय्यां राजसत्तमात् ॥
पुरा भ्रातः पिता नः स मातरं ते समुद्रहन् । मातामहे समाश्रौषीद्राज्यशुल्कमनुत्तमम ।।
देवासुरे च संग्रामे जनन्यै नव पार्थिवः । संप्रदृष्टो ददौ राजा वग्मागधितः प्रभुः ॥
ततः सा संपनिश्राव्य तव माना यशस्विनी । अयाचत नरश्रेष्ठ द्वौ वरौ वरवर्णिनी ।।
तव राज्यं नरव्याघ्र मम प्रत्राजनं तथा । नौ च राजा तदा तन्य नियुक्तः प्रददौ वरौ।।
तेन पित्राहमायत्र नियुक्तः पुरुषर्षभ । चतुर्दश वने वामं वर्षाणि वरदानिकम ।।
सोऽहं वनमिदं प्राप्तो निर्जन लक्ष्मणान्वितः । सीतया चाप्रतिद्वन्द्वः सत्यवादे स्थितः पितुः ।।
भवानपि नथेत्येव पितरं सत्यवादिनम् । कर्तुमर्हति गजेन्द्र क्षिप्रमेवाभिपेचनात् ।।
ऋणान्मोचय राजानं मत्कृते भरत प्रभुम । पितरं त्राहि धर्मज्ञ मातरं चाभिनन्दय ।। १०
श्रूयते हि पुरा तात श्रुतिर्गीता यशस्विना । गयेन यजमानेन गयेष्वेव पितॄन् प्रति ।। ११
पुन्नाम्नो नरकाद्यस्मान पितरं त्रायते सुतः । तस्मान् पुत्र इति प्रोक्तः पितृन् यः पाति सर्वतः ।। १२
एष्ठव्या बहवः पुत्रा गुणवन्तो बहुश्रुताः । तेषां वै समवेतानामपि कश्चिद्गयां ब्रजेत् ।। १३
एवं राजर्षयः सर्वे प्रतीता राजनन्दन । तस्मात् त्राहि नरश्रेष्ट पितरं नरकान् प्रभो ।। १४
अयोभ्यां गच्छ भरत प्रकृनीरनुरञ्जय । शत्रुन्नसहितो वीर सह सर्वैर्द्विजातिभिः ।। १५
प्रवेक्ष्ये दण्डकारण्यमहमप्यविलम्बयन् । आभ्यां तु सहितो राजन वैदेह्या लक्ष्मणेन च ।
त्वं राजा भरत भव स्वयं नराणां बन्यानामहमपि राजराण्मृगाणाम ।
गच्छ त्वं पुरवरमा संप्रष्टः संहृष्टस्त्वमपि दण्डकान् प्रवेक्ष्ये ॥
छायां ते दिनकरभाः प्रबाधमान वर्षत्रं भरत करोतु मूर्ध्नि शीताम ।
एतेषामहमपि काननगुमाणां छायां तामतिशयिनी सुखी श्रयिष्ये ॥