पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पदधिकशततमः सर्गः २७९

इष्ट्वा बहुविधैर्यज्ञैर्भोगांश्चावाप्य पुष्कलान् । उत्तम चायुरासाद्य स्वर्गतः पृथिवीपतिः॥
आयुरुत्तममासाद्य भोगानपि च राघवः । स न शोध्यः पिता तातः स्वर्गतः सत्कृतः सताम् ॥३६
स जीण मानुषं देहं परित्यज्य पिता हि नः । देवीमृद्धिमनुप्राप्तो ब्रह्मलोकविहारिणीम् ।।
तं तु नैवंविधः कश्चित् प्रासः शोचितुमर्हति । तद्विधो यद्विधश्वासि श्रुतवान् बुद्धिमत्तरः ॥ ३८
एते बहुविधाः शोका विलापरुदिते तथा । वर्जनीया हि धीरेण सर्वावस्थासु धीमता ।। ३९
स स्वस्थो भव मा शोको यात्वा चावस तां पुरीम् । तथा पित्रा नियुक्तोऽसि वशिना वदतां वरा॥४०
यत्राहमपि तेनैव नियुक्तः पुण्यकर्मणा । तत्रैवाहं करिष्यामि पितुरायस्य शासनम् ।। ४१
न मया शासनं तस्य त्यक्तुं न्याय्यमरिंदम । तत् त्वयापि सदा मान्यं स वै बन्धुः स नः पिता।।
तद्वचः पितुरेवाह संमत धर्मचारिणाम् । कर्मणा पालयिष्यामि वनवासेन राधव ॥
धार्मिकेणानृशंसेन नरेण गुरुवर्तिना । भवितव्यं नरव्याघ्र परलोकं जिगीषता ॥
आत्मानमनुतिष्ट त्वं म्वभावेन नरर्षभ । निशाम्य तु शुभं वृत्तं पितुर्दशरथस्य नः ॥
इत्येवमुक्त्वा वचनं महात्मा पितुर्निदेशप्रतिपालनार्थम् ।
यवीयसं भ्रातरमर्थवच्च प्रभुर्मुहूर्ताद्विरराम रामः ॥ ४६

पत्याचे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहसिकाया संहितायां अयोन्याकाण्टे रामवाक्यं नाम पञ्चाधिकशततमः मर्ग: पडधिकशततमः सर्गः भरतवचनम्

एवमुक्त्वा तु विरते रामे वचनमर्थवत् । ततो मन्दाकिनीतीरे रामं प्रकृतिवत्मलम् ।।
उवाच भरतश्चित्रं धार्मिको धार्मिक वचः । को हि स्यादीडशो लोके यादृशस्त्वमरिंदम ॥
न त्वां प्रब्यथयेद्दुःवं प्रीतिर्वा न प्रहर्षयेत् । संमतश्चासि वृद्धानां तांश्च पृच्छसि संशयान ॥ ३
यथा मृतस्तथा जीवन यथासति तथा सति । यस्यैष बुद्धिलाभः स्यात् परितप्येत केन सः॥
परावरज्ञो यश्च स्यात्तथा त्वं मनुजाधिप । स एवं व्यसनं प्राप्य न विषादितुमर्हति ।।
अमरोपमसत्त्वरत्वं महात्मा सत्यसंगरः । सर्वज्ञः सर्वदर्शी च बुद्धिमांश्वासि राघव ।।
न त्वामेवंगुणैर्युक्तं प्रभवाभवकोविदम् । अविषह्यतमं दुःखमासादयितुमर्हति ।।
एवमुक्त्वा तु भरतो रामं पुनरथाब्रवीत् । प्रोषिते मयि यत् पापं मात्रा भत्कारणात् कृतम् ।।