पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२७८ श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे

यथा तु रोपितो वृक्षः पुरुषेण विवर्धितः । ह्रस्वकेन दुरारोहो रूढस्कन्धो महाद्रुमः । ॥
स यथा पुष्पितो भूत्वा फलानि न निदर्शयेत्। स तां नानुभवेत् प्रीति यस्य हेतोः प्ररोपितः॥ ९
एषोपमा महाबाहो तमर्थ वेतुमर्हसि । यदि त्वमस्मान् वृषभो भर्ता भृत्यान्न शाधि हि ॥ १०
श्रेणयस्त्वां महाराज पश्यन्त्वप्रधाश्च सर्वशः । प्रतपन्तमिवादित्यं राज्ये स्थितमरिंदमम् ।। ११
तबानुयाने काकुत्स्थ मत्ता नर्दन्तु कुखराः। अन्तःपुरगता नार्यो नन्दन्तु सुसमाहिताः।। १२
तस्य साध्वित्यमन्यन्त नागरा विविधा जनाः। भरतस्य वचः श्रुत्वा रामं प्रत्यनुयाचतः॥ १३
तमेवं दुःखितं प्रेक्ष्य विलपन्तं यशस्विनम् । रामः कृतात्मा भरतं समाश्वासयदात्मवान् । १४
नात्मनः कामकारोऽस्ति पुरुषोऽयमनीश्वरः । इतश्चेतरतश्चैनं कृतान्तः परिकर्षति ।। १५
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः । संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् ॥१६
यथा फलानां पकानां नान्यत्र पतनाद्भयम । एवं नररय जातस्य नान्यत्र मरणाद्भयम॥ १७
यथागारं दृढस्थूणं जीर्ण भूत्वावसीदति । तथावसीदन्ति नरा जगमृत्युवशं गताः ।। १८
अत्येति रजनी या तु सा न प्रतिनिवर्तते । यात्येव यमुना पूर्णा समुद्रं लवणार्णवम ॥ १९
अहोरात्राणि गच्छन्ति सर्वेषां प्राणिनामिह । आषि क्षपयन्त्याशु ग्रीष्मे 'जामवांशवः ।। २०
आत्मानमनुशोच त्वं किमन्यमनुशोचसि । आयुन्ते हीयते यम्य स्थितस्य च गतस्य च ॥ २१
सहैव मृत्युर्व्रजति सह मृत्युर्निषीदति । गत्वा सुदीर्घमध्वानं सहमृत्युनिवर्तते ।।
गात्रेषु वलयः प्राप्ताः श्वेताश्चैव शिरोरुहाः । जरया पुरुपो जीर्णः कि हि कृत्वा प्रभावयेत् ॥ २३
नन्दन्त्युदित आदित्ये नन्दन्त्यस्तमिते रवी । आत्मनो नावयुध्यन्ते मनुष्या जीवितक्षयम् ॥ २४
हृष्यन्त्य॒तुमुखं दृष्ट्या नवं नवमिहागतम । ऋतूनां परिवर्तन प्राणिनां प्राणसंक्षयः ।।
यथा काष्ठं च काष्ठं च समेयातां महार्णवे। समेत्य च व्यपेयानां कालमामाघ कंचन ॥ २६
एवं भार्याश्च पुत्राश्च ज्ञातयश्च धनानि च । समेत्य व्यवधावन्ति ध्रुवो ह्येपां विनाभवः ।।
नात्र कश्चिद्यथाभावं प्राणी समभिवर्तते । तेन तस्मिन्न सामर्थ्य प्रतस्यान्त्यनुशोचतः ।।
यथा हि सार्थ गच्छन्तं ऋयात् कश्चित् पथि स्थितः । अहमष्यामिप्यामि पृष्ठतो भवतामिति ॥२९
एवं पूर्वैर्गतो मार्गः पितृपैतामहो ध्रुवः । तमापन्नः कथं शोचेद्यस्य नास्ति व्यतिक्रमः ।। ३०
वयसः पतमानस्य स्रोतसो वानिवर्तिनः । आत्मा सुखे नियोक्तव्यः मुखभाजः प्रजाः स्मृताः ॥३१
धर्मात्मा स शुभैः कुल्नः क्रतुभिश्चाप्तदक्षिणैः । धूतपापो गतः स्वर्ग पिता नः पृथिवीपतिः ।। ३२
भृत्यानां भरणात् सम्यक् प्रजानां परिपालनात् । अर्थादानाच धर्मेण पिता नत्रिदिवं गतः॥ ३३
कर्मभिस्तु शुभैरिष्टैः क्रतुभिश्चाप्तदक्षिणैः । स्वर्ग दशरथः प्राप्तः पिता नः पृथिवीपतिः।।