पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२७० श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे

कञ्चिन्न तर्कैर्युक्त्या वा ये चाप्यपरिकीर्तिताः । त्वया वा तव वामात्यैर्बुध्यते तात मन्त्रितम् ॥ २१
कचित् सहस्रान्मूर्खाणामेकमिच्छसि पण्डितम् । पण्डितो ह्यर्थकृच्छ्रेषु कुर्यानिःश्रेयसं महत् ॥ २२
सहस्राण्यपि मूर्खाणां यापास्ते महीपतिः । अथ वाप्ययुतान्येव नास्ति तेषु सहायता ।। २३
एकोऽप्यमात्यो मेधावी शूरो दक्षो विचक्षणः । राजानं राजमात्र वा प्रापयेन्महतीं श्रियम् ॥
कश्चिन्मुख्या महत्त्वेव मध्यमेषु च मध्यमाः । जघन्यास्तु जघन्येषु भृत्याः कर्मसु योजिताः ॥ २५
अमात्यानुपधातीतान् पितृपैतामहाशुचीन् । श्रेष्ठाश्रेष्टेषु कश्चित्त्वं नियोजयसि कर्मसु ।। २६
कचिन्नोग्रेण दण्डेन भृशमुजितप्रजम् । राष्ट्र तवानुजानन्ति मन्त्रिणः कैकयीसुत ।।
कञ्चित्वां नावजानन्ति याजकाः पतितं यथा । 'उग्रप्रतिग्रहीतारं कामयानमिव स्त्रियः ।।
उपायकुशलं वैद्यं भृत्यं संदूषणे रतम । शूरमेश्चर्यकामं च यो न हन्ति स बध्यते ।।
कश्चिद्धृष्टश्च शूरश्च मतिमान धृतिमाशुचिः । कुलीनश्चानुरक्तश्च दक्षः सेनापतिः कृतः ।। ३०
बलवन्तश्च कश्चित्ते मुख्या युद्धविशारदाः । दृष्टापदाना विक्रान्तास्त्वया सत्कृत्य मानिताः ।। ३१
कचिद्वलस्य भक्तं च वेतनं च यथोचितम् । संप्राप्तकालं दातव्यं ददासि न विलम्बसे ।। ३२
कालातिक्रमणाश्चैव भक्तवेतनयो ताः । भर्तुः कुप्यन्ति दुष्यन्ति सोऽनर्थः सुमहान स्मृतः ॥ ३३
कञ्चित् सर्वेऽनुरक्तास्त्वां कुलपुत्राः प्रधानतः । कञ्चिन् प्राणांस्तवार्थेषु सत्यजन्ति ममाहिताः ।। ३४
कमिजानपदो विद्वान् दक्षिणः प्रतिभानवान । यथोक्तवादी दूनम्ते कृतो भरत पण्डितः ।।
कञ्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च । त्रिभिस्त्रिभिरविज्ञानैर्वत्मि नीर्थानि चारणेः ।।
कनिध्यपास्तानहितान् प्रतियानांश्च सर्वदा । दुवैलाननवज्ञाय वर्तमे रिपुसूदन ।।
कश्चिन लोकायतिकान् ब्राह्मणांलात सबसे । अनर्थकुशला ह्यते बालाः पण्डितमानिनः ॥ ३८
धर्मशास्त्रेषु मुख्येषु विद्यमानेषु दुर्बुधाः । बुद्धिमान्वीक्षिकी प्राप्य निरर्थ प्रवदन्ति ते ।। ३९
वीरैरध्युपितां पूर्वमस्माकं तातपूर्वकैः । सत्यनामां दृढद्वारा हन्त्यश्वरथसंकुलाम ।।
ब्राह्मणैः क्षत्रियैवेश्यैः स्वकर्मनिरतः मदा । जितेन्द्रियैर्महोत्माहैतामायः सहस्रशः ।।
प्रासादैविविधाकारैर्वनां वैद्यजनाकुलाम् । कञ्चित ममुदितां स्फीतामयोध्या परिरक्षसि ।।
कञ्चिबैत्यशतर्जुष्टः सुनिविष्टजनाकुलः । देवस्थानः प्रपाभिश्व तटाकैश्वोपशोभितः ।।
प्रष्टनरनारीकः समाजोत्सवशोभितः । सुकृष्टमीमा पशुमान हिंसाभिभिवर्जितः ।।
अदेवमातृको रम्यः श्वापदैः परिवर्जितः । परित्यक्तो भयैः सर्वैः खनिभिश्वोपशोभितः ।।
विवर्जितो नरैः पापैर्मम पूर्वः सुरक्षितः । कच्चिजनपदः स्फीतः सुखं वसति राघव ।। ४६