पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२६४ श्रीमद्बाल्मीकिरामायणे अयोध्याकाण्डे

तथा तत्रासतस्तस्य भरतस्योपयायिनः । सैन्यरेणुश्च शब्दश्च प्रादुरास्तां नमःस्पृशौ ।
एतस्मिन्नन्तरे त्रस्ताः शब्देन महता ततः । अर्दिता यूथपा मत्ताः सयूथा दुद्रुवुर्दिशः ।।
स तं सैन्यसमुद्भूतं शब्दं शुश्राव राघवः । तांश्च विद्रुतान् सर्वान् यूथपानन्ववैक्षत ॥
तांश्च विद्रवतो दृष्टा तं च श्रुत्वा महास्वनम् । उवाच रामः सौमित्रि लक्ष्मणं दीप्ततेजसम् ।।
हन्त लक्ष्मण पश्येह सुमित्रा सुप्रजास्त्वया । भीमस्तनितगम्भीरस्तुमुलः श्रूयते स्वनः ।।
गजयूथानि वारण्ये महिषा वा महावने । वित्रासिता मृगाः सिंहैः सहसा प्रद्रुता दिशः ।।
राजा वा राजमात्रो वा मृगयामटते वने । अन्यद्वा श्वापदं किंचित् सौमित्रे ज्ञातुमर्हसि ॥
सुदुश्चरो गिरिश्चायं पक्षिणामपि लक्ष्मण । सर्वमेतद्यथातत्त्वमचिराज्ञातुमईसि ॥
स लक्ष्मणः संत्वरितः सालमारुह्य पुष्पितम् । प्रेक्षमाणो दिशः सर्वाः पूर्वी दिशमवैक्षत ॥
उदङ्मुखः प्रेक्षमाणो ददर्श महती चमूम् । गजाश्वरथसंबाधां यत्नैर्युक्तां पदातिभिः ॥
तामश्वगजसंपूर्णा रथध्वजविभूषिताम् । शशंस सेनां रामाय वचनं चेदमब्रवीत् ।।
अग्निं संशमयत्वार्यः सीता च भजतां गुहाम् । सज्यं कुरुष्व चापं च शरांश्च कवचं तथा ॥ १४
तं रामः पुरुषव्याघ्रो लक्ष्मणं प्रत्युवाच ह । अङ्गावेक्षस्व सौमित्रे कस्येमा मन्यसे चमूम ।। १५
एवमुक्तस्तु रामेण लक्ष्मणो वाक्यमब्रवीत् । दिधक्षनिव तां सेनां रुपितः पावको यथा ।।
संपन्नं राज्यमिच्छंस्तु व्यक्तं प्राप्याभिषेचनम् । आवां हन्तुं समभ्यति भरतः कैकयीसुतः ।।
एष वै सुमहाब् श्रीमान् विटपी संप्रकाशते । विराजत्युद्गतम्कन्धः कोविदारध्वजो रथे ।
भजन्त्येते यथाकाममश्वानारुह्य शीघ्रगान् । एते भ्राजन्ति संहष्ठा गजानामा मादिनः ।। १९
गृहीतधनुषौ चावां गिरिं वीर श्रयावहे । अथवेहैव तिष्ठावः संनद्धावुद्यतायुधौ ।।
अपि नौ वशमागच्छेत् कोविदारध्वजो रणे । अपि द्रक्ष्यामि भग्तं यत्कृते व्यसनं महत् ॥ २१
त्वया गघव संप्राप्त सीतया च मया तथा । निमित्तं भवान् राज्याच्युतो राघव शाश्वतात् ।।२२
संप्राप्तोऽयमरिवार भरतो वध्य एव मे । भरतस्य वधे दोपं नाहं पश्यामि राघव ।। २३
पूर्वापकारिणं हेत्वा न ह्यधर्मेण युज्यते । पूर्वापकारी भरतरत्यक्तधर्मश्च गघव ।।
एतस्मिाभिहते कृत्स्नामनुशाधि वसुंधराम् । अद्य पुत्रं हतं संख्ये कैकेयी राज्यकामुका ॥ २५
मया पश्यन् सुदुःखार्ता हस्तिभममिव द्रुमम् । कैकेयी च वधिष्यामि सानुबन्धां सबान्धवाम ॥२६
कलुषेणाद्य महता मेदिनी परिमुच्यताम । अधेमं संयत' क्रोधमसत्कारं च मानद ।
मोक्ष्यामि शत्रुसैन्येषु कक्षेष्विव हुताशनम् । अवैतचित्रकूटस्य काननं निशितैः शरैः॥
भिन्दञ्शत्रुशरीराणि करिष्ये शोणितोक्षितम् । शरैर्निर्मिनहदयान कुञ्जरांस्तुरगांम्तथा ।।