पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२६२ श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे

निर्धूतान् वायुना पश्य विततान पुष्पसंचयान । पोप्लूयमानानपरान् पश्य त्वं जलमध्यगान् ।। १०
पश्यैतान् वल्गुवचसो रथाङ्गाहयना द्विजाः । अधिरोहन्ति कल्याणि निष्कूजन्तः शुभा गिरः।।११
दर्शनं चित्रकूटस्य मन्दाकिन्याश्च शोभने । अधिकं पुरवासाच मन्ये तव च दर्शनात् ।। १२
विधूतकलुषैः सिद्धेस्तपोदमशमान्वितैः । नित्यविक्षोभितजलां विगाहस्व मया सह ॥ १३
सखीवश्च विगाहस्व सीते मन्दाकिनी नदीम् । कमलान्यवमज्जन्ती पुष्कराणि च भामिनि ।।
त्वं पौरजनवध्यालानयोध्यामिव पर्वतम् । मन्यस्व वनिते नित्यं सरयूवदिमां नदीम् ।।
१५
लक्ष्मणश्चापि धर्मात्मा मनिदेशे व्यवस्थितः । त्वं चानुकूला वैदेहि प्रीनि जनयतो मम ।।
उपस्पृशस्त्रिषवणं मधुमूलफलाशनः । नायोध्यायै न राज्याय स्पृहयेऽद्य त्वया सह ।।
इमां हि रम्यां गजयूथलोलितां निपीततोयां गजसिंहवानरैः ।
सुपुष्पितैः पुष्पधरैरलंकृतां न सोऽस्ति यः स्यादगतलमः सुखी ।।
इतीव रामो बहुसंगतं वचः प्रियासहायः सरितं प्रति ब्रुवन् ।
चचार रम्यं नयनाञ्जनप्रभं स चित्रकूट रघुवंशवर्धनः ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहसिकायां संहितायाम अयोध्याकाण्डे मन्दाकिनीवर्णना नाम पञ्चनवतितमः सर्ग: षण्णवतितमः सर्गः लक्षमणक्रोध

तां तथा दर्शयित्वा तु मैथिली गिरिनिम्नगाम् । निषसाद गिरिप्रस्थे सीतां मांसेन छन्दयन् ।।