पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चनवतितमः सर्गः २६१

बहुपुष्पफले रम्ये नानाद्विजगणायुते । विचित्रशिखरे यस्मिन् रतवानस्मि भामिनि ॥
अनेन पनवासेन मया प्राप्तं फलद्वयम् । पितुश्चानृणता धर्मे भरतस्य प्रियं तथा ॥ १७
वैदेहि रमसे कञ्चिचित्रकूटे मया सह । पश्यन्ती विविधान् भावान् मनोवाकायसंयताम् ।। १८
इदमेवामृतं पाहू राजि राजर्षयः परे । वनवासं भवार्थाय प्रेत्य मे प्रपितामहाः ।। १९
शिलाः शैलस्य शोभन्ते विशालाः शतशोऽभितः । बहुला बहुलैर्वणीलपीतसितारुणेः ।।
निशि भान्त्यचलेन्द्रस्य हुताशनशिखा इव । ओपध्यः स्वप्रभालक्ष्या भ्राजमानाः सहस्रशः ॥ २१
केचिन् क्षयनिभाः देशाः केचिदुद्यानसंनिभाः । कचिदेकशिला भान्ति पर्वतस्यास्य भामिनि ।। २२
भित्त्वेव वसुधां भाति चिरकूटः समुत्थितः । चित्रकूटस्य कृटोऽयं दृश्यते सर्वतः शुभः॥ २३
कुटपुंनागस्थगम्भूर्जपत्रोत्तरच्छदान । कामिना स्वान्तगन पश्य कुशेशयदलायुतान् ।
मृदिताश्चापविद्धान्य दश्यन्ते कमलम्रजः । कामिभिर्वनिने पश्य फलानि विविधानि च ॥
वस्वोकमागं नालनौमत्येतीवोनरान कुछन् । पर्वतश्चित्रकूटोऽसौ बहुमूलफलोदकः ।।
इमं तु कालं निते विहिवांस्त्वया च सीते सह लक्ष्मणेन च ।
गति प्रपत्स्ये फुलधर्भवर्धिनी मतां पथि स्वैनियमः परैः स्थितः।

दन्या श्रीमद्रामायणे नास्मीकीये आदिकागे चतुर्विंशतिसहस्रिकायां संहितायाम् अयोध्याकाण्डे चित्रकुटवर्णना नाम चतुर्नवतितमः सर्गः पञ्चनवतितमः मर्गः मन्दाकिनीवर्णना

अथ शैलाद्विनिष्कम्य मैथिली कोमलेश्वरः । अदर्शयच्छुभनलां रम्यां मन्दाकिनी नदीम् । १
अब्रवीश्च वरारोहां चन्द्रचारुनिभाननाम् । विदेहराजस्य सुतां रामो राजीवलोचनः॥
विचित्रपुलिना रभ्यां हंससारससेविनाम । कमलैरुपसंपन्नां पश्य मन्दाकिनी नदीम् ॥
नानाविधै स्तीररहेता पुष्पफलद्रमैः । गजन्ती राजराजस्य नलिनीमिव सर्वतः ॥
मृगयूथनिपीतानि कलुपाम्भासि सांप्रतम् । तीर्थानि रमणीयानि रति संजनान्त मे ॥
जटाजिनधराः काले वल्कलोत्तरवासमः । ऋषयस्त्वत्रगाहन्ते नदी मन्दाकिनी प्रिये ॥
आदित्यमुपतिइन्ते नियमादूर्वबाहवः । एते परे विशालाक्षि मुनयः संशितव्रताः॥
मारुतोद्धृतशिखरैः अनृत्त इव पर्वतः । पादपैः पत्रपुष्पाणि सृजद्भिरभितो नदीम् ॥
क्वचिन्मणिनिकाशोदा कचित् पुलिगशालिनीम । क्वचित् सिद्धजनाकीणां पश्य मन्दाकिनी नदीम्॥९