पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१६० श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे

साधु सैन्याः प्रतिष्ठन्तां विचिन्वन्तु च काननम् । यथा तौ पुरुषव्याघौ दृश्येते रामलक्ष्मणौ ॥ २०
भरतस्य वचः श्रुत्वा पुरुषाः शस्त्रपाणयः । विविशुस्तद्वनं शूरा धूमाय ददृशुस्ततः । २१
ते समालोक्य धूमाप्रमूचुर्भरतमागताः । नामनुष्ये भवत्यग्निर्व्यक्तमत्रैव राघवौ ।।
अथ नात्र नरव्याघ्रौ राजपुत्रौ परंतपौ । अन्ये रामोपमाः सन्ति व्यक्तमत्र तपखिनः ॥ २३
तच्छुत्या भरतस्तेषां वचनं साधुसंमतम् । सैन्यानुवाच सर्वस्तानमित्रबलमर्दनः ।।
२४
यता भवन्तस्तिष्ठन्तु नेतो गन्तव्यमप्रतः । अहमेव गमिष्यामि सुमन्त्रो 'धृतिरेव च ।।
एषमुक्तास्सतः सैन्यास्तत्र तस्थुः समन्ततः । भरतो यत्र धूमामं तत्र दृष्टिं समादधे ।। २६
व्यवस्थिता या भरतेन सा चमूर्निरीक्षमाणापि च धूममग्रतः ।
बभूव हृष्टा नचिरेण जानती प्रियस्य रामस्य समागमं तदा ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संदितायाम् अयोध्याकाण्डे चिलकूटवनप्रेक्षणं नाम प्रिनवतितमः सर्ग: चतुर्नवतितमः सर्गः चित्रकूटवर्णमा

दीर्घकालोषितस्तस्मिन् गिरौ गिरिवनप्रियः । वैदेह्याः प्रियमाकाङ्क्षन् स्वं च चित्तं विलोभयन् ।।१
अथ दाशरथिश्चित्रं चित्रकूटमदर्शयत् । भार्याममरसंकाशः शचीमिव पुरन्दरः ।।

न राज्या_शनं भद्रे न सुद्भिर्विनाभवः । मनो मे बाधते दृष्टा रमणीयमिमं गिरिम् ।।
पश्येममचलं भद्रे नानाद्विजगणायुतम् । शिखरैः खमिवोद्विद्वैधातुर्मावि भूपितम ।।
केचिद्रजतसंकाशाः केचित् क्षतजसंनिभाः। पीतमाञ्जिष्टवर्णाश्च चिन्मणिवरप्रभाः॥
पुण्यार्ककेतकाभाश्च केचिज्ज्योतीरसप्रभाः। बिराजन्तेऽचलेन्द्रस्य देशा धातुविभूषिताः ।।
नानामृगगणैर्दीपितरवृक्षगणैर्वृतः । अदुर्भात्ययं शैलो बहुपक्षिसमाकुलः ॥
आम्रजन्सनैलॊधैः प्रियालैः पनसैर्धवैः । अकोलैभव्यतिनिशैबिल्वतिन्दुकवेणुभिः ।।
काश्मयरिष्टवरणैर्मधूकैस्तिलकैस्तथा । बदामलकी पैर्वत्रधन्वनबीजकैः ।
पुष्पवद्भिः फलोपेतेश्छायावद्भिर्मनोरमैः । एवमादिभिराकीर्णः श्रियं पुष्यत्ययं गिरिः ।। १०
शैलप्रस्थेषु रम्येषु पश्येमान रोमहर्षणान । किंनरान् द्वन्द्वशो भद्रे रममाणान मनस्विनः ॥ ११
शाखावसक्तान् खगांश्च प्रवराण्यम्बराणि च । पश्य विद्याधरत्रीणां क्रीडोद्देशान मनोरमान् ।।१२
जलप्रपातैरनेवैर्निष्यन्दैश्च कचित् कचित् । स्रवद्भिर्भात्ययं शैलः स्रवन्मद इव द्विपः ॥ १३
गुहासमीरणो गन्धानानापुष्पभवान् वहन् । प्राणतर्पणमभ्येत्य के नरं न प्रहर्षयेत् ।। १४
यदीह शरदोऽनेकास्त्वया सार्धमनिन्दिते । लक्ष्मणेन च वत्स्यामि न मां शोकः प्रधक्ष्यति ।।