पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२५९ त्रिनवतितमः सर्गः

सा प्रयाता महासेना गजवाजिरथाकुला । दक्षिणां दिशमावृत्य महामेघ इवोत्थितः ।।
वनानि तु व्यतिक्रम्य जुष्टानि मृगपक्षिभिः । गङ्गायाः परवेलायां गिरिष्वपि नदीपु च ।।
सा संग्रहाद्विपवाजियोधा वित्रासयन्ती मृगपक्षिसङ्घान् ।
महद्वनं तत्प्रतिगाहमाना रराज सेना भरतस्य तत्र ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् अयोध्याकाण्डे भरद्वाजामन्त्रणं नाम द्विनवतितमः सर्गः त्रिनवतितमः सर्गः चित्रकूटवनप्रेक्षणम्

तया महत्या यायिन्या ध्वजिन्या वनवासिनः । अर्दिता यूथपा मत्ताः मयूथाः संप्रदुद्रुवुः ।।
ऋक्षाः प्रपतसङ्घाश्च रुरवश्च ममन्ततः । दृश्यन्त वनवाटेपु गिरिष्यपि नदीषु च ।।
स संप्रतस्थे धर्मात्मा प्रीतो दशरथात्मजः । वृत्तो महत्या नादिन्या सेनया चतुरङ्गया ।।
सागरौघनिभा सेना भरतस्य महात्मनः । महीं संछादयामास प्रापि द्यामिवाम्बुदः ।।
तुरङ्गौधैरवतता वारणेश्च महाबलेः । अनालक्ष्न्या चिरं कालं तस्मिन् काले बभूव भूः ।।
स गत्वा दृग्मध्वानं सुपरिश्रान्तवाहनः । उवाच भरतः श्रीमान् वसिष्ठं मन्त्रिणां वरम् ।।
यादृशं लक्ष्यते रूपं यथा चैव श्रुतं मया । व्यक्तं प्राप्ताः स्म तं देशं भरद्वाजो यमब्रवीत् ।।
अयं गिरिश्चित्रकूट इयं मन्दाकिनी नदी । एतत् प्रकाशतं दूरान्नीलमेघनिभं वनम ।।
गिरेः सानूनि रम्याणि चित्रकूटस्य संप्रति । वारणैरवमृद्यन्ते मामकैः पर्वतोपमैः ॥
मुश्चन्ति फुसुमान्येते नगाः पर्वतमानुषु । नीला इवातपापाये तोयं तोयधरा घनाः ।।
किनराचरितं देशं पश्य शत्रुघ्न पर्वतम् । मृगैः समन्तादाकीर्ण मकरैरिव सागरम् ॥
एते मृगगणा भान्ति शीघ्रवेगाः प्रचोदिताः । वायुप्रविद्धा शरदि मंघराजिरिवाम्बरे ।।
कुर्वन्ति कुसुमापीडाशिरःसु सुरभीनमी । मेघप्रकाशैः फलकैर्दाक्षिणात्या यथा नराः ।।
निष्कूजमिव भूत्वेदं वनं घोरप्रदर्शनम् । अयोध्येव जनाकीर्णा संप्रति प्रतिभाति मे ॥
खुरैरुदीरितो रेणुर्दिवं प्रच्छाद्य तिष्ठति । तं वहत्यनिलः शीघ्रं कुर्वन्निव मम प्रियम ।।
स्यन्दनास्तुरगोपेतान सूतमुख्यैरधिष्ठितान् । एतान् संपततः शीघ्रं पश्य शत्रुघ्र कानने ।।
एतान् वित्रासितान् पश्य बहिणः प्रियदर्शनान् । एवमापततः शैलमधिवासं पतत्रिणाम ||
अतिमात्रमयं देशो मनोज्ञः प्रतिभाति मे । तापसानां निवासोऽयं व्यक्तं स्वर्गपथो यथा ॥
मृगा मृगीभिः सहिता बहवः पृषता वने । मनोज्ञरूपा लक्ष्यन्ते कुसुमैरिव चित्रिताः ।।