पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२५८ श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे

आश्रमं तस्य धर्मज्ञ धार्मिकस्य महात्मनः । आचक्ष्व कतमो मार्गः कियानिति च शंस मे ।।
इति पृष्टस्तु भरतं भ्रातृदर्शनलालसम् । प्रत्युवाच महातेजा भरद्वाजो महातपाः ।।
भरतार्धतृतीयेषु योजनेष्वजने वने । चित्रकूटो गिरिस्तत्र रभ्यनिर्दरकाननः ।
उत्तरं पार्श्वमासाद्य तस्य मन्दाकिनी नदी । पुष्पितद्रुमसंच्छन्ना रम्यपुष्पितकानना ।।
अनन्तरं तत्सरितश्चित्रकूटश्च पर्वतः । तयोः पर्णकुटी तात तत्र तौ वसतो ध्रुवम् ॥ १२
दक्षिणेनैव मार्गेण सन्यदक्षिणमेव वा । गजवाजिरथाकीर्णा वाहिनीं वाहिनीपते । १३
बाहयस्व महाभाग ततो द्रक्ष्यसि राघवम् । प्रयाणमिति तच्छ्रुत्वा राजराजस्य योपितः ।।
हित्वा यानानि यानार्हा ब्राह्मणं पर्यवारयन् । वेपमाना कृशा दीना सह देव्या सुमित्रया ।। १५
कौसल्या तत्र जग्राह कराभ्यां चरणौ मुनेः । असमृद्धेन कामेन सर्वलोकस्य गहिता ।। १६
कैकेयी तस्य जग्राह चरणौ सव्यपत्रपा । तं प्रदक्षिणमागम्य भगवन्तं महामुनिन ।। १७
अदूराद्भरतस्यैव तस्थौ दीनमनास्तदा । ततः पप्रच्छ भरतं भरद्वाजो दृढव्रतः ॥
विशेषं ज्ञातुमिच्छामि मातृणां तव राघव । एवमुक्तस्तु भरतो भरद्वाजेन धार्मिकः ।। १९
उवाच प्राञ्जलिर्भूत्वा वाक्यं वचनकोविदः । यामिमां भगवन् दीनां शोकानशनकर्शिताम् ।।
पितुर्हि महिषीं देवीं देवतामिव पश्यसि । एषा तं पुरुषव्याघ्र सिंहविक्रान्तगामिनम् ।। २१
कौसल्या सुषुवे रामं धातारमदितिर्यथा । अस्या वामभुजं श्लिष्टा यैषा निष्ठति दुर्मनाः ।।
इयं सुमित्रा दुःखार्ता देवी राक्षश्च मध्यमा । कर्णिकारस्य शाखेव शोर्णपुष्पा वनान्तरे ।।
एतस्यास्तौ सुतौ देव्याः कुमारौ देवर्णिनौ । उभौ लक्ष्मणशत्रुघ्नौ वीरौ सत्यपराक्रमौ ॥
यस्याः कृते नरव्याघ्रौ जीवनाशमितो गतौ । राजा पुत्रविहीनश्च स्वर्ग दशरथो गतः ।।
क्रोधनामकृतप्रशां दृप्तां सुभगमानिनीम् । ऐश्वर्यकामां कैकयीमनार्यामार्यरूपिणीम् ।। २६
ममैतां मातरं विद्धि नृशंसां पापनिश्चयाम् । यतोमूलं हि पश्यामि व्यमनं महदात्मनः ।।
इत्युक्त्वा नरशार्दूलो बाष्पगद्गदया गिरा । स निशश्वास ताम्राक्षो नाग: क्रुद्ध इव श्वसन् ।।
भरद्वाजो महर्षितं ब्रुवन्तं भरतं तथा । प्रत्युवाच महाबुद्धिरिदं वचनमर्थवन् ।।
२९
न दोषेणावगन्तव्या कैकेयी भरत त्वया । रामप्रसाजनं होतत सुखोदकं भविष्यति ॥
देवानां दानवानां च ऋषीणां भावितात्मनाम् । हितमेव भविष्यद्धि रामप्रत्राजनादिह ॥
अभिवाद्य तु संसिद्धः कृत्वा चैनं प्रदक्षिणम् । आमन्त्र्य भरतः सैन्यं युज्यनामित्यचोदयत् ।। ३२
ततो वाजिरथान युक्त्वा दिव्यान हेमपरिष्कृतान । अध्यारोहन प्रयाणार्थी बहून् बहुविधो जनः।।
गजकन्या गजाश्चैव हेमकक्ष्याः पताकिनः । जीमूता इव धर्मान्ते सघोपाः संप्रतस्थिरे ।।
विविधान्याप यानानि महान्ति च लघुनि च । प्रययुः सुमहाहाणि पादैरेव पदानयः॥
अथ थानप्रवेकैस्तु कौसल्याप्रमुखाः स्त्रियः । रामदर्शनकाक्षिण्यः प्रययुमुदितास्तदा ।।
चन्द्रार्कतरुणाभासां नियुक्तां शिबिका शुभाम् । आस्थाय प्रययौ श्रीमान् भरतः सपरिच्छदः ॥३७