पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२५४ श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे

न चैतदिष्टं माता मे यदवोचन्मदन्तरे। नाहमेतेन तुष्टश्च न तद्वचनमाददे ।
अहं तु तं नरव्याघ्रमुपयातः प्रसादकः । प्रतिनेतुमयोध्यां च पादौ तस्याभिवन्दितुम् ॥
तं मामेवंगतं मत्वा प्रसादं कर्तुमर्हसि । शंस मे भगवन् रामः क संप्रति महीपतिः॥
वसिष्ठादिभित्रविग्मिर्याचितो भगवांस्ततः । उवाच तं भरद्वाजः प्रसादाद्भरतं वचः ।।
त्वय्येतत् पुरुषव्याघ्र युक्तं राघववंशजे । गुरुवृत्तिर्दमश्चैव साधूनां चानुयायिता ॥
जाने चैतन्मनःस्थं ते रढीकरणमस्त्विति । अपृच्छं त्वां तथात्यर्थ कीर्ति समभिवर्धयन् ॥
जाने च रामं धर्मज्ञं ससीतं सहलक्ष्मणम् । असौ वसति ते भ्राता चित्रकूट महागिरी।
श्वस्तु गन्तासि तं देशं वसाध सह मन्त्रिभिः । एतं मे कुरु सुप्राज्ञ कामं कामार्थकोविद् ॥
ततस्तथेत्येवमुदारवर्शनः प्रतीतरूपो भरतोऽनवीद्वचः ।
चकार बुद्धिं च तदा तदाश्रमे निशानिवासाय नराधिपात्मजः ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् अयोध्याकाण्डे भरद्वाजाश्रमनिवासो नाम नवतितमः सर्गः एकनवतितमः सर्गः भरद्वाजातिथ्यम्

कृतबुद्धिं निवासाय तत्रैव स मुनिस्तथा । भरतं कैकयीपुत्रमातिथ्येन न्यमन्त्रयत् ॥
अब्रवोद्भरतस्त्वेनं नन्विदं भवता कृतम् । पाद्यमध्य तथातिथ्यं वने यदुपपद्यते ॥
अथोवाच भरद्वाजो भरतं प्रहसन्निव । जाने त्वां प्रीतिसंयुक्तं तुष्येस्त्वं येन केनचिन् ।
सेनायास्तु तवैतस्याः कर्तुमिच्छामि भोजनम् । मम प्रीतियथारूपा त्वम) मनुजाधिप ।
किमर्थ चापि निक्षिप्य दूरे बलमिहागतः । करमान्नेहोपयातोऽसि सबलः पुरुषर्षभ ।।
भरतः प्रत्युवाचेदं प्राञ्जलिस्तं तपोधनम् । ससैन्यो नोपयानोऽस्मि भगवन् भगवद्भयात् ।।
राशा च भगवन्नित्यं राजपुत्रेण वा सदा । यत्नतः परिहर्तच्या विषयेषु तपस्विनाम ।
वाजिमुख्या मनुष्याश्च मत्ताश्च वरवारणाः । प्रच्छाय मॅगवन भूमि महतीमनुयान्ति माम् ।।
ते वृक्षानुदकं भूमिमाश्रमेपूटजास्तथा । न हिंस्युरिति तेनाहमेक एव समागतः ॥
आनीयतामितः सेनेत्याज्ञप्तः परमर्षिणा । ततस्तु चके भरतः सेनायाः समुपागमम् ॥ १०
अमिशाल प्रविश्याथ पीत्वापः परिमृज्य च । आतिथ्यस्य क्रियाहेतोर्विश्वकर्माणमालयत् ।। ११
आहये विश्वकर्माणमहं त्वष्टारमेव च । आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ।। १२
आह्वये लोकपालांस्त्रीन् देवाशकमुखांस्तथा। आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ॥ १३