पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२५२ श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे

तस्यार्थमुत्तरं कालं निवत्स्यामि सुखं वने । तं प्रतिश्रवमामुच्य नास्य मिथ्या भविष्यति' ॥ २७
वसन्तं भ्रातुराय शत्रुनो मानुवत्स्यति । लक्ष्मणेन सह त्वार्यों अयोध्या पालयिष्यति ॥
अभिषेश्यन्ति काकुत्स्थमयोध्यायां द्विजातयः । अपि मे देवताः कुर्युरिमं सत्यं मनोरथम् ॥ २९
प्रसाद्यमानः शिरसा मया स्वयं बहुप्रकारं यदि नाभिपत्स्यते ।

ततोऽनुवत्स्यामि चिराय राघवं वनेचरं नाईति मामुपेक्षितुम् ।। ३० इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् अयोध्याकाण्डे शय्यानुवीक्षणं नाम अष्टाशीतितमः सर्गः एकोननवतितमः सर्गः गङ्गातरणम्

व्युष्य रात्रिं तु तत्रैव गङ्गाकूले स राघवः । भरतः कल्यमुत्थाय शत्रुनमिदमब्रवीत् ॥
शत्रुघ्नोत्तिष्ठ किं शेपे निषादाधिपतिं गुहम् । शीघ्रमानय भद्रं ते तारयिष्यति वाहिनीम् ।।
जागर्मि नाहं स्वपिमि तमेवार्य विचिन्तयन् । इत्येवमब्रवीद्धात्रा शत्रुघ्नोऽपि प्रचोदितः ।।
इति संबदतोरेवमन्योन्यं नरसिंहयोः । आगत्य प्राञ्जलिः काले गुहो भरतमब्रवीत् ॥
कश्चित् सुखं नदीतीरेऽवात्सीः काकुत्स्थ शर्वरीम् । कश्चित्ते सह सैन्यस्य तावन् सर्वमनामयम् ॥ ५
गुहस्य तत्तु वचनं श्रुत्वा नोहादुदीरितम् । रामस्यानुवशो वाक्यं भरतोऽपीदमब्रवीत् ।। ६
सुखा नः शर्वरी राजन् पूजिताश्चपि ते वयम् । गङ्गां तु नौभिर्बह्रीभिर्दाशाः संतारयन्तु नः ।।
ततो गुहः संत्वरितं श्रुत्वा भरतशासनम् । प्रतिप्रविश्य नगरं तं ज्ञातिजनमब्रवीत् ।।
उत्तिष्ठत प्रबुध्यध्वं भद्रमस्तु च कः सदा । नावः समनुकर्पध्वं तारयिष्याम वाहिनीम् ।।
ते तथोक्ताः समुत्थाय त्वरिसा राजशासनात् । पञ्च नावां शतान्याशु समानिन्युः समन्ततः ॥ १०
अन्याः स्वस्तिकविझेया महाघण्टाधरा वराः। शोभमानाः पताकाभियुक्तवाताः मुसंहताः ।।
ततः स्वस्तिकविज्ञेयां पाण्डुकम्बलसंवृताम । सनन्दिघोषां कल्याणी गुहो नावमुपाहरत् ।।
तामारोह भरनः शत्रनश्च महायशाः। कौसल्या च सुमित्रा च याश्चान्या राजयोषितः ।। १३
पुरोहितश्च तत्पूर्व गुरवो ब्राह्मणाश्च ये। अनन्तरं राजदारास्तथैव शकटापणाः ॥
आवासमादीपयतां तीर्थ चाप्यवगाहताम् । भाण्डानि चाददानानां घोपस्त्रिदिवमस्पृशत् ।। १५
पताकिन्यस्तु ता नावः स्वयं दाशैरधिष्ठिताः। वहन्त्यो जनमारूडं तदा संपेतुराशुगाः ।। १६
नारीणामभिपूर्णास्तु काश्चित् काश्चिञ्च वाजिनाम् । काश्चिदत्र वहन्ति स्म यानयुग्यं महाधनम् ॥१७