पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टाशीतितमः सर्गः २५१ अष्टाशीतितमः सर्गः शय्यानुवीक्षणम्

तच्छ्रुत्वा निपुणं सर्वं भरतः सह मन्त्रिभिः । इङ्गुदीमूलमागम्य रामशय्यामवेक्ष्य ताम् ॥
अब्रवीज्जननीः सर्वा इह तेन महात्मना । शर्वरी शयिता भूमाविदमस्य विमर्दितम ॥
महाभागकुलीनेन महाभागेन धीमता। जातो दशरथेनोयो न रामः स्वप्तुमर्हति ।।
अजिनोत्तरसंस्तीर्णं वरास्तरणसंवृते । शयित्वा पुरुषव्याघ्रः कथं शेते महीतले ॥
प्रासादापविमानेपु बलभीषु च सर्वदा । हेमराजतभौमेषु वरास्तरणशालिषु ॥
पुष्पसंचर्याचत्रेषु चन्दनागरुगन्धिपु । पाण्डराभ्रप्रकाशेषु शुक्रसमतेषु च ॥
प्रामादवग्वर्यपु शीतवत्सु सुगन्धिषु । उषित्वा मेझकल्पेषु कृतकाञ्चनभित्तिषु ॥
गीतवादित्रनिर्घो पर्वगभग्णनिःस्वनैः । मृदङ्गवरशब्दैश्च सततं प्रतियोधितः ।।
वन्दिभिन्दिनः फाले बहुभिः सूतमागधैः । गाथाभिरनुपाभिः स्तुतिभिश्च परंतपः॥
अश्रद्धयमिदं लोक न सन्यं प्रतिभाति माम । मुह्यते खलु मे भावः स्वमोऽयमिति मे मतिः॥ १०
न नूनं देवनं किञ्चिन कालेन बलवत्तरम् । यत्र दाशरथी रामो भूमावेवमशेत सः॥ ११
विदेहगजस्य सुना सीना च प्रियदर्शना । दयिना शयिता भूमौ स्नुषा दशरथस्य च ॥ १२
इयं शय्या मम भ्रातुरिदं हि परिवर्तितम ! स्थण्डिले कठिने सर्व गात्रंर्विमृदितं तृणम् ॥ १३
म ये माभग्णा मुप्ता मीतास्मिञ्झयने शुभा । नत्र तत्र हि दृश्यन्ते सक्ताः कनकविन्दवः ।। १४
उत्तरीयमिहासक्तं सुव्यक्तं सीतया नदा । तथा ोते प्रकाशन्ते सक्ताः कौशेयनन्तकः ॥ १५
मन्ये भर्तुः मुग्वा शय्या येन वाला तपस्विनी । सुकुमारी सती दुःखं न विजानाति मैथिली ॥ १६
हा हनोऽस्मि नृशंसोऽहं यत् सभार्यः कृते मम । ईदृशीं गघवः शय्यामधिशेते ह्यनाथवत् ।। १७
सार्वभौमकुले जातः सर्वलोकमुखावहः । सर्वलोकप्रियस्त्यक्त्वा राज्यं सुखमनुत्तमम ॥ १८
कथमिन्दीवरश्यामो रक्ताक्षः प्रियदर्शनः । सुखभागी न दुःखार्हः शयितो भुवि राघवः ।।
धन्यः खलु महाभागो लक्ष्मणः शुभलक्षणः । भ्रातरं विषमे काले यो राममनुवर्तते ॥
सिद्धार्था स्खलु वैदेही पति यानुगता वनम् । वयं संशयिताः सर्वे हीनास्तेन महात्मना ।। २१
अकर्णधारा पृथिवी शून्येव प्रतिभाति मे । गते दशरथे स्वर्ग रामे चारण्यमाश्रिते ।।
न च प्रार्थयते कश्चिन्मनसापि वसुंधराम् । वनेऽपि वसतस्तस्य बाहुवीर्याभिरक्षिताम् ।। २३
शून्यसंवरणारक्षामयन्त्रितहद्विपाम् । अपावृतपुरद्वारां राजधानीमरक्षिताम् ।।
अप्रहृष्टपलां न्यूनां विषमस्थामनावृताम् । शत्रयो नाभिमन्यन्ते भक्ष्यान् विषकृतानिव ।।
अद्य प्रभृति भूमौ तु शयिष्येऽहं तृणेषु वा । फलमूलाशनो नित्यं जटाधीराणि धारयन् ।। २६