पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२५० श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे सप्ताशीतितमः सर्गः रामशयनादिप्रश्नः

गुहस्य वचनं श्रुत्वा भरतो भृशमप्रियम् । ध्यानं जगाम तत्रैव यत्र तच्छ्रुतमप्रियम् ॥
सुकुमारो महासत्त्यः सिंहस्कन्धो महाभुजः । पुण्डरीकविशालाक्षन्तरुणः प्रियदर्शनः ।।
प्रत्याश्वस्य मुहूतं तु कालं परमदुर्मनाः । पपात' सहसा तोत्रै दि विद्ध इव द्विपः ॥
तदवस्थं तु भरतं शत्रुन्नोऽनन्तरस्थितः । परिष्वज्य रुरोदोश्चैर्विसंज्ञः शोककर्शितः ॥
ततः सर्वाः समापेतुर्मातरो भरतस्य ताः । उपवासकृशा दीना भतुव्र्यसनकर्शिताः ॥
ताश्च ते पतितं भूमी मदन्त्यः पर्यवाग्यन् । कौसल्या त्वनुमृत्यैनं दुर्मनाः परिषस्वजे॥
वत्सला स्वं यथा वत्समुपगृह्य तपस्विनी । परिपप्रच्छ भरतं रुदन्ती शोककर्शिता ।।
पुत्र व्याधिन ते कञ्चिच्छरीरं परिबाधते । अद्य राजकुलस्यास्य त्वधीनं हि जीवितम् ।।
त्वां दृष्ट्वा पुत्र जीवामि रामे सभ्रातृके गते । वृत्ते दशरथे राज्ञि नाथ एकस्त्वमद्य नः ।। ९
कश्चिन्नु लक्ष्मणे पुत्र श्रुतं ते किंचिदप्रियम । पुत्रे वा ोकपुत्रायाः महभायें वनं गते ।
स मुहूर्त समावस्य मदन्नेव महायशाः । कौगल्या परिसान्त्व्येदं गुहं वचनमब्रवीत् ॥
भ्राता मे कावसद्रात्रि क सीता क च लक्ष्मणः । अस्वपच्छयने करिमन किं भुक्त्वा गुह शंस मे ।।
सोऽब्रवीद्भरतं हृष्टो निपादाधिपतिगुहः । यद्विधं प्रतिपेदे च रामे प्रियहितेऽतिथौ ।। १३
अन्नमुञ्चावचं भक्षाः फलानि विविधानि च । रामायाभ्यवहागथं बहु चोपडतं मया ।।
तत्सर्व प्रत्यनुज्ञासीद्रामः मत्यपराक्रमः । न तु तत्प्रत्यगृह्णात्म क्षत्रधर्ममनुस्मरन् ।। १५
न ह्यस्माभिः प्रतिग्राह्य मग्वे देयं तु सर्वदा । इति तेन वयं राजन्ननुनीता महात्मना । १६
लक्ष्मणेन समानीतं पीत्वा वारि महात्मना । औपवास्यं तदाकार्पोद्रायत्रः सह सीतया ।।
ततस्तु जलशेषेण लक्ष्मणोऽप्यकरोत्तदा । वाग्यतास्ते त्रयः सन्ध्यां समुपासत संहिताः ।।
सौमित्रिस्तु तनः पश्चादकरोन स्वास्तरं शुभम् । स्वयमानीय बहीं पि क्षिप्रं राघवकारणात् ।। १९
तस्मिन समाविशद्रामः स्वारतरे मह सीनया । प्रक्षाल्य च तयोः पादावपचक्राम लक्ष्मणः ।।
एतत्तदिगुदीमूलमिदमेव च ततृणम् । यस्मिन् रामश्च सीना च रात्रिं तां शयितावुभौ ।। २१
नियम्य पृष्ठे तु तलाइगुलित्रवाशरैः सुपूर्णाविषुधी परंतपः ।
महद्धनुः सज्यमुपोहा लक्ष्मणो निशामतिष्ठत् परितोऽस्य केवलम् ॥
ततस्त्वहं चोत्तमबाणचापधृन स्थितोऽभवं तत्र स यत्र लक्ष्मणः ।
अतन्द्रिभिर्ज्ञातिभिरातकार्मुकैः सहेन्द्रकल्पं परिपालयस्तदा ॥ २३

इत्यार्षे श्रीमद्रामायणे बाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां अयोध्याकाण्डे रामशयनादिप्रश्नो नाम सप्ताशीतितमः सर्गः