पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे

नवनागसहस्राणि कल्पितानि यथाविधि । अन्वयुर्भरतं यान्तमिक्ष्वाफुकुलनन्दनम् ॥
षष्टी रथसहस्राणि धन्विनो विविधायुधाः । अन्वयुभरतं यान्तं राजपुत्रं यशस्विनम् ।।
शतं सहस्त्राण्यश्वानां समारूढानि राघवम् । अन्वयुभरतं यान्तं सत्यसन्धं जितेन्द्रियम् ।।
कैकेयी च सुमित्रा च कौसल्या च यशस्विनी । रामानयनसंदृष्टा ययुर्यानेन भास्वता ।।
प्रयाताश्चार्यमबाता रामं द्रष्टुं सलक्ष्मणम् । तस्यैव च कथाचित्राः कुर्वाणा हष्टमानसाः॥
मेघश्याम महाबाहुं स्थिरसत्त्वं दृढव्रतम् । कदा द्रक्ष्यामहे रामं जगतः शोकनाशनम ॥
दृष्ट एव हि नः शोकमपनेष्यति राघवः । तमः सर्वस्य लोकस्य समुवन्निव भास्करः।। ९
इत्येवं कथयन्तस्ते संप्रहृष्टाः कथाः शुभाः । परिष्वजानाश्चान्योन्यं ययुर्नारिका जनाः।। १०
ये च तत्रापरे सर्व समता ये च नैगमाः। रामं प्रतिययुहष्टाः सर्वाः प्रकृतयस्तथा ।
मणिकाराश्च ये केचित् कुम्भकाराश्च शोभनाः । सूत्रकर्मकृतश्चैव ये च शत्रोपजीविनः ।।
मायरकाः काकचिका रोचका वेधकास्तथा । दन्तकाराः सुधाकारास्तथा गन्धोपजीविनः ॥ १३
सुवर्णकाराः प्रख्यातास्तथा कम्बलकारकाः । स्नापकोच्छादका वैवा धपकाः शौण्डिकास्तथा ॥१४
रजकास्तन्तुवायाश्च प्रामघोपमहत्तराः । शैलूषाश्च सह श्रीभिर्ययुः कैवर्तकास्तथा । १५
समाहिता वेदविदो ब्राह्मणा वृत्तसंमताः । गोरथैर्भरतं यान्तमनुजग्मुः सहस्रशः ।।
सुवेषाः शुद्धवसनास्ताम्रसृष्टानुलेपनाः । सर्वं ते विविधैर्यानैः शनैर्भरतमन्वयुः ।।
प्रहष्टमुदिता सेना सन्वयात् केकयीमुतम् । भ्रातुरानयने यान्तं भरतं भ्रातृवत्मलम ।। १८
ते गत्वा दूरमध्वानं रथयानाश्वकुरैः । समासेदुरततो गङ्गां शृङ्गिवेरपुर प्रति ।। १९
यत्र रामसखो वीरो गुहो ज्ञातिगणैर्वृतः । निवसत्यप्रमादेन देशं तं परिपालयन् ।।
उपेत्य तीरं गङ्गायाश्चक्रवाकैरलंकृतम् । व्यवानिष्ठत सा सेना भरतस्यानुयायिनी ।।
निरीक्ष्यानुगतां सेना नां च गहां शिवोदकाम् । भरतः मचिवान् सर्वानब्रवीद्वाक्यकोविदः ।। २२
निवेशयत में सैन्यमभिप्रायेण मर्वतः । विश्रान्ताः प्रतरिष्यामः का इदानीमिमां नदीम् ।। २३
दातुं च नावदिच्छामि स्वर्गतस्य महीपतेः । और्ध्वदेहनिमित्तार्थमवतीर्योदकं नदीम ।।
तस्यैवं अवतोऽमात्यास्तथेत्युक्त्वा ममाहिताः । न्यवेशयंस्तांश्छन्देन स्वेन स्वेन पृथक् पृथक् ॥ २५
निवेश्य गङ्गामनु तां महानदी चमू विधानैः परिबर्हशोभिनीम् ।
उवास रामस्य तदा महात्मनो विचिन्तयानो भरतो निवर्तनम् ॥

२६ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकान्ये चतुर्विंशतिसहस्रिकायां संहितायाम् अयोध्याकाण्डे भरतवनप्रस्थानं नाम त्र्यशीतितमः सर्गः