पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकाशीतितमः सर्गः २४३

बबन्धुर्बन्धनीयांश्च क्षोद्यान् संचुक्षुदुस्तदा । बिभिदुर्भेदनीयांश्च तांस्तान् देशानरास्तदा।। १०
अचिरेणैव कालेन परिवाहान् बहूदकान् । चर्बहुविधाकारान् सागरप्रतिमान् बहून् । ११
निर्जलेषु च देशेषु खानयामासुरुत्तमान । उदपानान् बहुविधान वेदिकापरिमण्डितान् ।। १२
स सुधाकुट्टिमतलः प्रपुष्पितमहीरुहः । मत्तो ष्टद्विजगणः पताकाभिरलंकृतः ।।
१३
चन्दनोदकसंसिक्तो नानाकुसुमभूपितः । ब्रह्मशोभत सेनायाः पन्थाः सुरपथोपमः ॥
आज्ञाप्याथ यथाज्ञप्ति युक्तास्तेऽधिकृता नराः । रमणीयेषु देशेषु बहुस्वादुफलेषु च ।।
यो निवेशस्त्वभिमतो भरतस्य महात्मनः । भूयस्तं शोभयामासुभूषाभि पणोपमम् ।। १६
नक्षत्रेषु प्रशस्तेषु मुहूर्तपु च तद्विदः । निवेशान् स्थापयामासुभरतस्य महात्मनः ।।
बहुपांसुचयाश्चापि परिखापरिवारिताः । तत्रेन्द्रनीलप्रतिमाः प्रतोलीवरशोभिताः ॥
१८
प्रासादमालावितताः सौधमाकारमंवृताः । पताकाशोभिताः सर्वे सुनिमितमहापथाः ।। १९
वितर्दिभिरिवाकाशे विटङ्काग्रविमानकैः । समुच्छितैनिवेशास्ते बभुः शक्रपुरोपमाः ।।
जानवीं तु समासाद्य विविधद्रुमकाननाम । शीतलामलपानीयां महामीनसमाकुलाम् ॥
सचन्द्रतारागणमण्डितं यथा नमः क्षपायाममलं विराजते ।
नरेन्द्रमार्गः स तथा व्यराजत क्रमेण रम्यः शुभशिल्पिनिर्मितः।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् अयोध्याकाण्ड मार्गरास्कारो नाम अशीतितमः सर्गः एकाशीतितमः सर्गः सभास्थानम्

ततो नान्दीमुखी' रात्रिं भरतं सूतमागधाः । तुष्टुवुर्वाग्विशेषाः स्तवैर्मङ्गलसंहितैः ।।
सुवर्णकोणाभिहतः प्राणदशामदुन्दुभिः । दध्मुः शडांश्च शतशो वाद्यांश्वोच्चावचश्वरान् ।।
स तूर्यघोषः सुमहान् दिवमापूरयन्निव । भरतं शोकसंतप्तं भूयः शोकैररन्ध्रयत् ।।
ततः प्रबुद्धो भरतस्तं घोषं संनिवर्त्य च । नाहं राजेति चाप्युक्त्वा शत्रुघ्नमिदमब्रवीत् ।।
पश्य शत्रुघ्न कैकेय्या लोकस्यापकृतं महत् । विसृज्य मयि दुःखानि राजा दशरथो गतः ॥
तस्यैषा धर्मराजस्य धर्ममूला महात्मनः । परिभ्रमति राजश्रीनौरिवाकर्णिका जले ।। ६
यो हि नः सुमहानाथः सोऽपि प्रत्राजितो वनम् । अनया धर्ममुत्सृज्य मात्रा मे राघवः स्वयम् ॥७
इत्येवं भरतं प्रेक्ष्य विलपन्तं विचेतनम् । कृपणं रुरुदुः सर्वाः सवरं योषितस्तदा ।
तथा तस्मिन् विलपति वसिष्ठो राजधर्मवित् । सभामिक्ष्वाकुनाथस्य प्रविवेश महायशाः ॥ ९