पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२४२ श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे

युज्यतां महती सेना चतुरङ्गमहाबला । आनयिष्याम्यहं ज्येष्ठं भ्रातरं राघवं वनात् ।। ९
आभिषेचनिकं चैव सर्वमेतदुपस्कृतम् । पुरस्कृत्य गमिष्यामि रामहेतोर्वनं प्रति । १०
तत्रैव तं नरव्याघ्रमभिषिच्य पुरस्कृतम् । आनयिष्यामि वै रामं हव्यवाहमिवावरात् ॥ ११
न सकामां करिष्यामि स्वामिमां मातृगन्धिनीम् । वने वस्याम्यहं दुर्गे रामो राजा भविष्यति ॥ १२
क्रियतां शिल्पिभिः पन्थाः समानि विषमाणि च । रक्षिणश्चानुसंयान्तु पथि दुर्गविचारकाः ॥ १३
एवं संभाषमाणं तं रामहेतोपात्मजम् । प्रत्युवाच जनः सर्वः श्रीमद्वाक्यमनुत्तमम् ॥
एवं ते भाषमाणस्य पद्मा श्रीरुपतिष्ठताम् । यस्त्वं ज्येष्ठे नृपसुते पृथिवीं दातुमिच्छसि ।। १५
अनुत्तमं तद्वचनं नृपात्मजप्रभाषितं संश्रवणे निशम्य च ।
हर्षजास्तं प्रति बाष्पबिन्दवो निपेतुरार्यानननेत्रसंभवाः ।।
१६
ऊचुस्ते वचनमिदं निशम्य हृष्टाः सामात्याः सपरिषदो वियातशोकाः ।
पन्थानं नरवर भक्तिमाञ्जनश्च व्यादिष्टस्तव वचनाच शिल्पिवर्गः।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् अयोध्याकाण्डे सचिवप्रर्थनाप्रतिषेधो नाम एकोनाशीतितमः सर्गः अशीतितमः सर्गः मार्गसंस्कारः

अथ भूमिप्रदेशज्ञाः सूत्रकर्मविशारदाः । स्वकर्माभिरताः शूराः खनका यन्त्रकास्तथा ।
कर्मान्तिकाः स्थपतयः पुरुषा यन्त्रकोविदाः । तथा वर्धकयश्चैव मार्गिणो वृक्षतक्षकाः ॥
'कूपकाराः सुधाकारा वंशकर्मकृतस्तथा । समर्था ये च द्रष्टारः पुरतस्ते प्रतस्थिरे ।। ३
स तु हर्षात्तमुद्देशं जनौघो विपुलः प्रयान् । अशोभत महावेगः समुद्र इवै पणि ।।
ते स्ववारं समास्थाय वर्मकर्मणि कोविदाः । करणैर्विविधोपेतैः पुरस्तात् संप्रतस्थिरे ।।
लता वलीश्च गुल्मांश्च स्थाणूनश्मन एव च । जनयींचक्रिरे मार्ग छिन्दन्तो विविधान द्रुमान् ॥ ६
अवृक्षेषु च देशेषु कचिवृक्षानरोपयन् । केचित् कुठारैष्टवैश्च दात्रैश्छिन्दन् कचिन् कचित् ॥ ७
अपरे वीरणस्तम्बान बलिनो बलवत्तराः। विधमन्ति स्म दुर्गाणि स्थलानि च ततस्ततः ।।
अपरेऽपूरयन् कूपान् पांसुभिः श्वभ्रमायतम् । निम्नभागांस्ततः केचित् समांश्चक्रुः समन्ततः ।।