पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीमद्बामीकिरामायणे अयोध्याकाणे

कामं वा स्वयमेषाद्य तत्र मां नेतुमर्हसि । यत्रासौ पुरुषव्याघ्रः पुत्रो मे तप्यते तपः ॥ १५
इदं हि तव विस्तीर्ण धनधान्यसमाचितम् । हत्यश्वरथसंपूर्ण राज्य निर्यातितं तया ॥
इत्यादिबहुभिर्वाफ्यैः क्रूरैः संभर्सितोऽनघः । विव्यथे भरतस्तीनं प्रणे तुद्येव सूचिना ॥
पपात चरणो तरयास्तदा संभ्रान्तचेतनः । पिलप्य बहुधासंझो लब्धसंक्षरततः स्थितः। १८
एवं विलपमानां तां भरतः प्राञ्जलिस्तदा । कौसल्या प्रत्युवाचेदं शोकैर्बहुभिरावृताम् ॥ १९
आर्ये कस्मादजानन्तं गर्हसे मामकिल्बिषम् । विपुलं च मम प्रीति स्थिरां जानासि राघवे॥
कृता शास्त्रानुगा बुद्धिर्मा भूत्तस्य कदाचन । सत्यसन्धः सतां श्रेष्ठ यस्यार्योऽनुमते गतः॥ २१
प्रेष्यं पापीयसां यातु सूर्य च प्रति मेहतु । हन्तु पादेन गां सुनां यस्यार्योऽनुमते गतः॥
कारयित्वा महत् कर्म भर्ता भृत्यमनर्थकम् । अधर्मों योऽस्य सोऽस्यास्तु यस्यार्योऽनुमते गतः ॥२३
परिपालयमानस्य राज्ञो भूतानि पुत्रवत् । ततस्तु द्रुह्मतां पापं यस्यार्योऽनुमते गतः।।
बलिषड्भागमुद्धृत्य नृपस्यारक्षतः प्रजाः । अधर्मो यस्तु सोऽस्यास्तु यस्यार्योऽनुमते गतः ॥ २५
संश्रुत्य च तपस्विभ्यः सत्रे वै यज्ञदक्षिणाम् । तां विप्रलपतां पापं यस्थार्योऽनुमते गतः ॥ २६
हस्त्यश्वरथसंबाचे युद्धे शस्त्रसमाकुले । मा स्म कात् िसतां धर्म यस्यार्योऽनुमते गतः।
उपदिष्टं सुसूक्ष्मार्थ शास्त्र यत्नेन धीमता । स नाशयतु दुष्टात्मा यस्यार्योऽनुमते गतः॥ २८
मा च तं व्यूढबासं चन्द्रार्कसमतेजसम् । द्राक्षीद्राज्यस्थमासीनं यस्यार्योऽनुमते गतः ॥ २९
पायसं कृसरं छागं वृथा सोऽभातु निघृणः । गुरुश्चाप्यवजानातु यस्यार्योऽनुमते गतः ।। ३०
गाश्च' स्पृशतु पादेन गुरून् परिवदेत् स्वयम् । मित्रे दुखेत सोऽत्यन्तं यस्यार्योऽनुमते गतः ॥ ३१
विश्वासात् कथितं किंचित् परिवादं मिथः कचित् । विवृणोतु स दुष्टात्मा यस्यार्योऽनुमते गतः ॥३२
अकर्ता ह्यकृतज्ञश्च त्यक्तात्मा निरपत्रपः । लोके भवतु विद्वेष्यो यस्यार्योऽनुमते गतः ।। ३३
पुत्रैरिश्च भृत्यश्च स्वगृहे परिवारितः । स एको मृष्टमभातु यस्यार्योऽनुमते गतः ॥
अप्राप्य सदृशान दाराननपत्यः प्रमीयताम् । अनवाप्य क्रियां धयां यस्यार्योऽनुमते गतः ॥ ३५
मात्मनः संततिं द्राक्षीत् स्वेषु दारेषु दुःखितः । आयुः समप्रमप्राप्य यस्यार्योऽनुमते गतः ॥ ३६
राजस्त्रीबालवृद्धानां वधे यत् पापमुच्यते । मृत्यत्यागे च यत् पापं तत् पापं प्रतिपद्यताम् ॥
लाक्षया मधुमासेन लोहेन च विषेण च । सदैव विभृयाभृत्यान् यस्यार्योऽनुमते गतः । ३८
संग्रामे समुपोढे तु शत्रुपक्षभयंकरे। पलायमानो वध्येत यस्यार्योऽनुमते गतः ।
कपालपाणिः पृथिवीमटतां चीरसंवृतः। भिक्षमाणो यथोमत्तो यस्यार्योऽनुमते गतः।
मद्ये प्रसक्तो भवतु स्त्रीष्वक्षेषु च नित्यशः । कामक्रोधाभिभूतस्तु यस्यार्योऽनुमते गतः ॥