पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पबसप्ततितमः सर्गः २३५

एकपुत्रा च साध्वी च विवत्सेयं त्वया कृता । तस्मात्त्वं सततं दुःखं प्रेत्य चेह च लप्स्यसे ॥ २९
अहं अपचितिं भ्रातुः पितुश्च सकलामिमाम् । वर्धनं यशसश्चापि करिष्यामि न संशयः ।।
आनाग्य च महाबाहु कौसल्याया महाबलम् । स्वयमेव प्रवेक्ष्यामि बनं मुनिनिपेवितम् ॥
न यह पापसंकल्पे पापे पापं त्वया कृतम् । शक्तो धारयितुं पौरैरझुकण्ठैर्निरीक्षितः॥ ३२
सा त्वमग्निं प्रविश वा स्वयं वा दण्डकान् विश । रज्जु बधान वा कण्ठे न हि तेऽन्यत् परायणम्॥
अहमण्यवनि प्राप्ते रामे सत्यपराक्रमे । कृतकृत्यो भविष्यामि विश्वासितकल्मषः ।। ३४
इति नाग इवारण्ये तोमराङ्कुशचोदिनः । पपात भुवि संक्रुद्धो निःश्वमन्निव पन्नगः ।।
संरक्तनेत्रः शिथिलाम्बरस्तथा विधूतसर्वाभरणः परंतपः ।
बभूव भूमौ पतितो नृपात्मजः शचीपतेः केतुरिवोत्सवक्षये ॥

इत्याचे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहसिकायां सहितायाम अयोध्याकाण्डे केकेय्याक्रोशो नाम चतुःसप्ततितमः सर्गः पञ्चसप्ततितमः सर्गः भरतशपथ:

दीर्घकालात् समुत्थाय संज्ञां लब्ध्वा च वीर्यवान् । नेत्राभ्यामश्रुपूर्णाभ्यां दीनामुद्वील्य मातरम् ।।१
सोऽमात्यमध्ये भरतो जननीमभ्यफुत्मयत् । राज्यं न कामये जातु मन्त्रये नापि मातरम ।।
अभिषेकं न जानामि योऽभूद्राज्ञा समीक्षितः । विप्रकृष्टे ह्यहं देशे शत्रुघ्नसहितोऽवसम् ।।
वनवासं न जानामि रामस्याहं महात्मनः । विवासनं वा सौमित्रेः सीतायाश्च यथाभवत् ।।
तथैव क्रोशतस्तस्य भरतस्य महात्मनः । कौसल्या शब्दमाशाय सुमित्रामिदमब्रवीत् ।।
आगतः कृरकार्यायाः कैकेय्या भरतः सुतः । तमहं द्रष्टुमिच्छामि भरत दीर्घदर्शिनम् ॥
एवमुक्त्वा सुमित्रों सा विवर्णा मलिना कशा । प्रतस्थे भरतो यत्र वेपमाना विचेतना ।।
स तु रामानुजश्चापि शत्रुघ्नसहितस्तदा । प्रतस्थे भरतो यत्र कौसल्याया निवेशनम् ॥
ततः शत्रुघ्नभरतौ कौसल्या प्रेक्ष्य दुःखितौ । पर्यवजेता दुःखार्ता पतितां नष्टचेतनाम् ।।
रुदन्तौ रुदती दुःखान् समेत्यार्या मनस्विनी । भरतं प्रत्युवाचेदं कौसल्या भृशदुःखिता ॥ १०
इदं ते राज्यकामस्य राज्यं प्राप्तमकण्टकम् । संप्राप्त बत कैकेय्या शीघ्र क्रूरेण कर्मणा ॥ ११
प्रस्थाप्य चीरवसनं पुत्रं मे वनवासिनम् । कैकेयी के गुणं तत्र पश्यति क्रूरदर्शिनी ।। १२
क्षिप्रं मामपि कैकेयी प्रस्थापयितुमर्हति । हिरण्यनाभो यत्रास्ते सुतो मे सुमहायशाः ॥
१३
अथवा स्वयमेवाह सुमित्रानुचरा सुखम् । अग्निहोत्रं पुरस्कृत्य प्रस्थास्ये यत्र राघवः ।।