पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीमद्बाल्मीकिरामायणे अयोध्याकाण्डे

किं नु तेऽदृषयद्राजा रामो वा भृशधार्मिकः । ययोर्मृत्युर्विवासश्च त्वत्कृते तुल्यमागतौ ।।
भ्रूणहत्यामसि प्राप्ता फुलस्यास्य विनाशनात् । कैकेयि नरकं गच्छ मा च भर्तुः सलोकताम् ।।
यत्त्वया कीदृशं पापं कृतं घोरेण कर्मणा । सर्वलोकप्रियं हित्वा ममाप्यापादितं भयम् ।।
त्वत्कृते मे पिता वृत्तो रामश्चारण्यमाश्रितः । अयशो जीवलोके व त्वयाहं प्रतिपादितः।।
मातृरूपे ममामिने नृशंसे राज्यकामुके । न तेऽहमभिभाष्योऽस्मि दुर्घत्ते पतिघातिनि ।।
कौसल्या च सुमित्रा च याश्चान्या मम मातरः । दुःखेन महताविष्टास्त्वां प्राप्य कुलदूषणीम् ॥ ८
न त्वमश्वपतेः कन्या धर्मराजस्य धीमतः । राक्षसी तत्र जातासि फुलप्रध्वंसिनी पितुः ॥
यत्त्वया धार्मिको रामो नित्यं सत्यपरायणः । वनं प्रस्थापितो दुःखात् पिता च त्रिदिवं गतः ॥ १०
यत्प्रधानासि तत्पापं मयि पित्रा विनाकृते । भ्रातृभ्यां च परित्यक्ते सर्वलोकस्य चाप्रिये ॥ ११
कौसल्यां धर्मसंयुक्ता वियुक्तां पापनिश्चये । कृत्वा के प्राप्स्यसे त्वद्य लोकं निरयगामिनि ॥ १२
किं नावबुध्यसे करे नियतं बन्धुसंश्रया । ज्येष्ठं पितृसमं रामं कौसल्यातनुसंभवम् ।। १३
अङ्गप्रत्यङ्गजः पुत्रो हृदयाचापि जायते । तस्मात् प्रियतमो मातुः प्रिया एव तु बान्धवाः ॥ १४
अन्यदा किल धर्मज्ञा सुरभिः सुरसंमता । वहमानौ ददशीव्यां पुत्रौ विगतचेतसौ । १५
तावर्धदिवसे श्रान्तौ दृष्टा पुत्रौ महीतले । रुरोद पुत्रशोकेन बाष्पपर्याकुलेक्षणा ।।
अधस्ताबजतस्तस्याः सुरराझो महात्मनः । बिन्दवः पतिता गात्रे सूक्ष्माः सुरभिगन्धिनः ॥ १७
इन्द्रोऽप्यश्रुनिपातं तं स्वगात्रे पुण्यगन्धिनम् । सुरभिं मन्यते दृष्टा भूयसीं तां सुरेश्वरः ॥ १८
निरीक्षमाणः शक्रस्तां ददर्श सुरभि स्थिताम् । आकाशे विष्ठितां दीनां रुदन्ती भृशदुःखिताम् ॥ १९
तां दृष्टा झोकसंतप्तां वनपाणिर्यशस्विनीम् । इन्द्रः प्राञ्जलिरुविनः सुरराजोऽब्रवीद्वचः ॥
भयं कश्चिन्न चास्मासु कुतश्चिद्विद्यते महत् । कुतोऽनिमित्तः शोकस्ते हि सर्वहितैषिणि ।।
एवमुक्ता तु सुरभिः सुरराजेन धीमता । प्रत्युवाच ततो धीरा वाक्यं वाक्यविशारदा ।।
शान्तं पापं न वः किंचित् कुतश्चिदमराधिप । अहं तु मनौ शोचामि स्वपुत्रौ विषमे स्थितौ ।। २३
एतौ दृष्ट्वा कृशौ दीनौ सूर्यरश्मिप्रतापितौ । अर्धमानौ बलीवौ कर्षकेण सुराधिप ।।
मम कायात प्रसूतौ हि दुःखितौ भारपीडितौ । यो दृष्टा परितप्येऽहं नास्ति पुत्रसमः प्रियः ।। २५
यस्याः पुत्रसहस्रेस्तु कृत्स्नं व्याप्तमिदं जगत् । तां दृष्ट्वा मदतीं शक्रो न सुतान्मन्यते परम् ॥ २६
सदापतिमवृत्ताया लोकधारणकाम्यया । श्रीमत्या गुणनित्यायाः स्वभावपरिचेष्टया ॥
यस्याः पुत्रसहस्राणि सापि शोचति कामधुक् । किं पुनर्या विना रामं कौसल्या वर्तयिष्यति ।। २८