पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुःसप्ततितमः सर्गः २१५

तथा ज्येष्ठा हि मे माता कौसल्या दीर्घदर्शिनी । त्वयि धर्मं समास्थाय भगिन्यामिव वर्तते ॥ १०
तस्याः पुत्रं कृतात्मानं चोरवल्कलवाससम् । प्रस्थाप्य वनवासाय कथं पापे न शोचसि ॥ ११
अपापदर्शनं शूरं कृतान्मान यशस्विनम् । प्रत्राज्य चीरवसनं किं नु पश्यसि कारणम् ।। १२
लुब्धाया विदितो मन्ये न तेऽहं राघवं प्रति । तथा झनों राज्यार्थ त्वया नीतो महानयम् ।। १३
अहं हि पुरुषव्याघ्रावपश्यन् रामलक्ष्मणौ । केन शक्तिप्रभावेण राज्यं रक्षितुमुत्सहे ।।
तं हि नित्य महाराजो बलवन्तं महाबलः । अपाश्रितोऽभूधर्मात्मा मेरुमैरुवनं यथा ।। १५
सोऽहं कथमिमं भारं महाधुर्यसमुद्धृतम् । दम्यो धुरमियासाद्य बहेयं केन चौजसा ।
अथवा मे भवेच्छक्तियोंगर्बुद्धिबलेन वा । सकामां न करिष्यामि त्वामहं पुत्रगर्धिनीम् ॥ १७
न मे विकाझा जायेत त्यक्तुं त्वां पापनिश्चयाम् । यदि रामस्य नापेक्षा त्वयि स्यान्मातृवत्सदा ।।
उत्पन्ना तु कथं बुद्धिस्तवेयं पापदर्शिनी । साधुचारित्रविभ्रष्टे पूर्वेषां नो विगहिता ।। १९
अस्मिन् कुले हि पूर्वेषां ज्येष्ठो राज्येऽभिषिच्यते । अपरे भ्रातरस्तस्मिन् प्रवर्तन्ते समाहिताः ।।२०
न हि मन्ये नृशंसे त्वं राजधर्ममवेक्षसे । गति वा न विजानासि राजवृत्तस्य शाश्वतीम् ।। २१
सततं राजवृत्ते हि ज्येष्ठो राज्येऽभिषिच्यते । राक्षामेतत् समं तत् स्यादिक्ष्वाकूणां विशेषतः ॥ २२
तेषां धमकरक्षाणां फुलचारित्रशोभिनाम् । अत्र चारित्रशौण्डीर्य त्वां प्राप्य विनिवर्तितम् ॥ २३
तवापि सुमहाभागा जनेन्द्राः कुलपूर्वगाः । बुद्धेर्मोहः कथमयं संभूतस्त्वयि गर्हितः॥ २४
न तु कामं करिष्यामि तवाहं पापनिश्चये। यया व्यसनमारब्धं जीवितान्तकरं मम ।। २५
एष विदानीमेवाहमप्रियार्थ तवानघम । निवर्तयिष्यामि वनाद्धातरं स्वजनप्रियम् ।। २६
निवर्तयित्वा रामं च तस्याहं दोप्ततेजसः । दासभूतो भविष्यामि सुस्थितेनान्तरात्मना ॥
इत्येवमुक्त्वा भरतो महात्मा प्रियेतरैक्यिगणेस्तुदस्ताम् ।
शोकातुरश्चापि ननाद भूयः सिंहो यथा मन्दरकन्दरस्थः ॥ २८

इत्यार्षे श्रीमद्रामायणे याल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् अयोध्याकाण्डे कैकेयाविगणं नाम निसप्ततितमः सर्ग: चतुःसप्ततितमः सर्गः कैकय्याक्रोशः

तां तथा गर्हयित्वा तु मातरं भरतस्तदा । रोषेण महत्ताविष्टः पुनरेवाब्रवीद्वचः ।।
राज्याशस्व कैकेयि नृशंसे दुष्टचारिणि । परित्यक्ता च धर्मण मा मृतं रुदत्ती भव ॥