पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तषष्टितमः सर्गः ८ ९ उभौ भरतशत्रुघ्नौ केकयेषु परन्तपौ। पुरे राजगृहे रम्ये मातामहनिवेशने ।। इक्ष्वाकूणामिहाद्यैव राजा कश्चिद्विधीयताम् । अराजकं हि नो राष्ट्रं विनाशं समवाप्नुयात् ।। नाराजके जनपदे विशुन्माली महास्वनः । अभिवर्षति पर्जन्यो महीं दिव्येन वारिणा ।। नाराजके जनपदे बीजमुष्टिः प्रकीर्यते । नाराजके पितुः पुत्रो भार्या वा वर्तते वशे ॥ १० अराजके धनं नास्ति नास्ति भार्याप्यराजके । इदमत्याहितं चान्यत् कुतः सत्यमराजके ।। ११ नाराजके जनपदे प्रविशन्ति समां नराः । उद्यानानि च रम्याणि हृष्टाः पुण्यगृहाणि च ॥ १२ नाराजके जनपदे यज्ञशीला द्विजातयः । सत्राण्यन्वासते दान्ता ब्राह्मणाः संशितव्रताः ।। १३ नाराजके जनपदे महायज्ञेषु यज्वनः । ब्राह्मणा वसुसंपन्ना विसृजन्त्याप्तदक्षिणाः ॥ १४ नाराजके जनपदे प्रहष्टनटनर्तकाः । उत्सवाश्च समाजाश्च वर्धन्ते राष्ट्रवर्धनाः ॥ १५ नाराजके जनपदे सिद्धार्था व्यवहारिणः । कथाभिरनुरज्यन्ते कथाशीलाः कथाप्रियः ।। १६ नाराजके जनपदे उद्यानानि समागताः । सायाहे क्रीडितुं यान्ति कुमार्यों हेमभूपिताः ।। १७ नाराजके जनपदे वाहनैः शीघ्रगाभिभिः । नरा निर्यान्त्यरण्यानि नारीभिः सह कामिनः ।। १८ नाराजके जनपदे धनवन्तः मुरक्षिताः । शेरते विवृतद्वागः कृषिगोरक्षजीविनः ॥ १९ नागजके जनपदे बद्धघण्टा विपाणिनः । अन्ति राजमार्गेपु कुञ्जराः पष्टिहायनाः ॥ नाराजके जनपदे शरान् संततमस्यताम् । श्रूयते तान?प इष्वस्त्राणामुपासने । २१ नाराजके जनपदे वणिजो दुरगामिनः । गच्छन्ति क्षेममध्वानं बहुपण्यसमाचिताः ।। २२ नाराजके जनपदे चरत्येकचरो वशी। भावयन्नात्मनात्मानं यत्र सायंगृहो मुनिः ।। २३ नाराजके जनपदे योगक्षेमः प्रवर्तते । न चाप्यराजके सेना शत्रून विपहते युधि ।। २४ नाराजके जनपदे इष्टः परमवाजिभिः । नराः संयान्ति सहसा रथैश्च परिमण्डिताः ।। २५ नाराजके जनपदे नराः शास्त्रविशारदाः । संवदन्तोऽवतिष्ठन्ते वनेपूपवनेषु च ॥ २६ नाराजके जनपदे माल्यमोदकदक्षिणाः । देवताभ्यर्चनार्थाय कल्प्यन्ते नियतैर्जनैः ।। २७ नाराजके जनपदे चन्दनागमरूपिताः । राजपुत्रा विराजन्ते वसन्त इव शाखिनः ।। यथा हनुदका नद्यो यथा वाप्यतृणं वनम् । अगोपाला यथा गावस्तथा राष्ट्रमराजकम् ।। ध्वजो रथस्य प्रज्ञानं धूमो ज्ञानं विभावसोः । तेषां यो नो ध्वजो राजा स देवत्वमितो गतः ॥ ३० नाराजके जनपदे स्वकं भवति कचित् । मत्स्या इव नरा नित्यं भक्षयन्ति परस्परम् ।। ३१ ये हि संभिन्नमर्यादा नास्तिकाश्छिन्नसंशयाः। तेऽपि भोगाय कल्पन्ते राजदण्डनिपीडिताः॥ ३२ यथा दृष्टिः शरीरस्य नित्यमेव प्रवर्तते । तथा नरेन्द्रो राष्ट्रस्य प्रभवः सत्यधर्मयोः ।। ३३