पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१८ श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे

तिष्ठ मा मा गमः पुत्र यमस्य सदनं प्रति । श्वो मया सह गन्तासि जनन्या च समेधितः ।।
३६
उभावपि च शोकार्तावनाथौ कृपणौ वने । क्षिप्रमेव गमिष्यावस्त्वया सह यमक्षयम् ।। ३७
ततो वैवस्वतं दृष्ट्वा तं प्रवक्ष्यामि भारतीम् । क्षमतां धर्मराजो मे विभृयात् पितरावयम् ।।
दातुमर्हति धर्मात्मा लोकपालो महायशाः । ईदृशस्य ममाक्षय्यामेकामभयदक्षिणाम् ॥
अपापोऽसि यदा पुत्र निहतः पापकर्मणा । तेन सत्येन गच्छाशु ये लोकाः शखयोधिनाम् ।।
यां हि शूरा गतिं यान्ति संपामेष्वनिवर्तिनः । हतास्त्वभिमुखाः पुत्र गतिं तां परमां ब्रज ॥
यां गति सगरः शैव्यो दिलीपो जनमेजयः । नहुषो धुन्धुमारश्च प्राप्तास्तां गच्छ पुत्रक ।।
या गतिः सर्वसाधूनां स्वाध्यायात्तपसश्च या । या भूमिदस्याहितामेरेकपत्नीत्रतस्य च ।।
गोसहस्रप्रदातॄणां गुरुसेवाभृतामपि । न्यासकृतां या च तां गतिं गच्छ पुत्रक ।।
न हि त्वस्मत्कुले जातो गच्छत्यकुशलां गतिम् । स तु यास्यति येन त्वं निहतो मम बान्धवः॥ ४५
एवं स कृपण तत्र पर्यदेवयतासकृत् । ततोऽस्मै कर्तुमुदकं प्रवृत्तः सह भार्यया । ४६
स तु दिव्येन रूपेण मुनिपुत्रः स्वकर्मभिः । स्वर्गमध्यारुहत् क्षिप्रं शक्रेण सह धर्मवित् ।।
आषभाषे च तौ वृद्धौ शक्रेण सह तापसः । आश्वास्य च मुहूर्त तु पितरौ वाक्यमत्रवीत् ॥
स्थानमस्मि महत् प्राप्तो भवतोः परिचारणान् । भवन्तावपि च क्षिनं मम मूलमुपैष्यथः ।। ४९
एवमुक्त्वा तु दिव्येन विमानेन वपुष्मता । आरुरोह दिवं क्षिप्रं मुनिपुत्रो जितेन्द्रियः ॥
स कृत्वा तूदकं तूर्ण तापसः सह भार्यया । मामुवाच महातेजाः कृताञ्जलिमुपस्थितम् ॥ ५१
अद्यैव जहि मां राजन् मरण नास्ति मे व्यथा । यच्छरेणैकपुत्रं मां त्वमकार्षीरपुत्रकम् ।। ५२
त्वया तु यदविज्ञानानिहतो मे सुतः शुचिः । तेन त्वामभिशास्यामि सुदुःखमतिदारुणम् ॥ ५३
पुत्रव्यसनजं दुःखं यदेतन्मम साम्प्रतम । एवं त्वं पुत्रशोकेन राजन् कालं गमिष्यसि ॥
अज्ञानातु हतो यस्मात् क्षत्रियेण त्वया मुनिः । तस्मात्त्वां नाविशत्याशु ब्रह्महत्त्या' नराधिप ॥५५
वामप्येतादृशो भावः क्षिप्रमेव गमिष्यति । जीवितान्तकरो घोरो दातारमिव दक्षिणा ॥ ५६
एवं शापं मयि न्यस्य विलप्य करुणं बहु । चितामारोप्य देहं तन्मिथुनं स्वर्गमभ्ययात् ।।
तदेतश्चिन्तयानेन स्मृतं पापं मया स्वयम् । तदा बाल्यात् कृतं देवि शब्दवेध्यनुकर्षिणा ।।
तस्यायं कर्मणो देवि विपाकः समुपस्थितः । अपथ्यैः सह सभुक्तो व्याधिरनरसों यथा ।। ५९
तस्मान्मामागतं भद्रे तस्योदारस्य तद्वचः । यदहं पुत्रशोकेन संत्यक्ष्याम्यद्य जीवितम् ॥ ६०
चक्षुभ्यां त्वां न पश्यामि कौसल्ये साधु मां स्पृश । इत्युक्त्वा स रुदंसस्तो भार्यामाइ च भूमिपः।।