पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गत्वा नद्यास्ततस्तीरमपश्यमिपुणा हदि । विनिर्भिन्नं गतप्राणं शयानं भुवि तापसम्॥
तप्तस्तस्यैव वचनादुपेत्य परितप्यतः । स मया सहसा बाण उद्धृतो मर्मणस्तदा ।। १७
स चोद्धृतेन बाणेन सहसा स्वर्गमास्थितः । भवन्तौ पितरौ शोचन्नन्धाविति विलप्य च ॥ १८
अज्ञानाद्भवतः पुत्रः सहसाभिहतो मया । शेषमेवं गते यत् स्यासत् प्रसीदतु मे मुनिः ।। १९
स तच्छ्रुत्वा वचः क्रूरं मयोक्तमयशसिना । नाशकत्तीव्रमायासमकर्तु भगवान मुनिः॥
स बाष्पपूर्णनयनो निःश्वसझोककर्शितः । मामुवाच महातेजाः कृताञ्जलिमुपस्थितम् ।।
योतदशुभं कर्म न त्वं मे कथयेः स्वयम् । फलेन्मूर्धा स्म ते राजन् सद्यः शतसहस्रधा ॥
क्षत्रियेण वधो राजन वानप्रस्थे विशेषतः । ज्ञानपूर्व कृतः स्थानाच्च्यावयेदपि वज्रिणम् ॥ २३
सप्तधा तु फलेन्मूर्धा मुनौ तपसि तिष्ठति । ज्ञानाद्विमृजतः शस्त्रं तादृशे ब्रह्मवादिनि
अज्ञानाद्धि कृतं यस्मादिदं तेनैव जीवसि । अपि वद्य फुलं न स्यादिक्ष्वाकूणां कुतो भवान् ।। २५
नय नौ नृप तं देशमिति मां चाभ्यभाषत । अद्य तं द्रष्टुमिच्छावः पुत्रं पश्चिमदर्शनम् ॥ २६
मधिरेणानुलिप्ताङ्गं प्रकीर्णाजिनवाससम् । शयानं भुवि निःसहं धर्मराजवशं गतम् ।।
अथाहमेकरतं देशं नीत्वा तौ भृशदुःखितौ । अस्पर्शयमहं पुत्रं तं मुनि सह भार्यया ।।
तौ पुत्रमात्मनः स्पृष्ट्वा तमासाद्य तपस्विनौ । निपेततुः शरीरेऽस्य पिता चास्येदमब्रवीत् ।। २९
नाभिवादयसे मादा न च मामभिभाषसे । किं नु शेपेऽद्य भूमौ त्वं वत्स किं कुपितो ह्यसि ॥ ३०
न त्वहं तेऽप्रियः पुत्र मातरं पश्य धार्मिक । किं नु नालिङ्गसे पुत्र सुकुमारं वचो वद ।। ३१
कस्य वापररात्रेऽहं श्रोष्यामि हृदयंगमम् । अधीयानस्य मधुरं शास्त्रं वान्यद्विशेषतः ।। ३२
को मां सन्ध्यामुपास्यैव स्नात्वा हुतहुताशनः । श्लाधयिष्यन्युपासीनः पुत्रशोकभयादितम् ।। ३३
कन्दमूलफलं हृन्वा को मां प्रियमिवातिथिम् । भोजयिष्यत्यकर्मण्यमप्रग्रहमनायकम् ॥
इमामन्धां च वृद्धां च मातरं ते तपस्विनीम् । कथं वत्स भरिष्यामि कृपणां पुत्रगर्धिनीम् ।।