पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१६ श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे

लक्षयामास हृदये चिन्तां मुनिसुतस्तदा । ताम्यमानं स मां कृच्छादुवाच परमार्तवत् ॥
सीदमानो विवृत्तानो वेष्टमानो गतः क्षयम् । संस्तभ्य शोकं धैर्येण स्थिरचित्तो भवाम्यहम् ॥ ४९
ब्रह्महत्त्याकृतं पापं हृदयादपनीयताम् । न द्विजातिरहं राजन मा भूत्ते मनसो व्यथा ॥ ५०
शूद्रायामस्मि वैश्येन जातो जनपदाधिप । इत्येवं वदतः कृच्छादाणाभिहतमर्मणः ।। ५१
विघूर्णतो विचेष्टस्य वेपमानस्य भूतले । तस्य त्वाताम्यमानस्य तं बाणमहमुद्धरम् ।।
स मामुट्ठीक्ष्य संत्रस्तो जहौ प्राणांस्तपोधनः ॥

जलार्द्रगानं तु विलप्य कृच्छ्रान्ममंत्रणं संततमुच्छुसन्तम् । ततः सरय्वां तमहं शयानं समीक्ष्य भद्रेऽस्मि भृशं विषण्णः ।। ५३ इत्याचे श्रीमद्रामायणे वाल्मीकीये आदिकाध्ये चतुर्विशतिसहस्रिकायां संहितायाम अयोध्याकाण्डे ऋपिकुमारवधाख्यानं नाम त्रियष्टितमः सर्गः चतुःषष्टितमः सर्गः दशरथदिष्टान्तः

वधमप्रतिरूपं तु महर्षेस्तस्य राघवः । विलपन्नव धर्मात्मा कौसल्या पुनरब्रवीत् ।।

तदज्ञानान्महत् पापं कृत्वा संकुलितेन्द्रियः । एकस्त्वचिन्तयं बुद्धया कथं नु सुकृतं भवेत् ।।
ततस्तं घटमादाय पूर्ण परमवारिणा । आश्रमं तमहं प्राप्य यथाख्यातपथं गतः ॥

तत्राहं दुर्बलावन्धौ वृद्धावपरिणायको । अपश्यं तस्य पितरौ लूनपक्षाविव द्विजौ ॥
तन्निमित्ताभिरासीनौ कथाभिरपरिक्रमौ । तामाशां मत्कृत होनावुदासीनावनाथवत् ।।
शोकोपहतचित्तश्च भयसंत्रस्तचेतनः । तथाश्रमपदं गत्वा भूयः शोकमहं गतः ।।
पदशब्दं तु मे श्रुत्वा मुनिर्वाक्यमभाषत । किं चिरायसि मे पुत्र पानीयं क्षिप्रमानय ॥
यनिमित्तमिदं तात सलिले क्रीडितं त्वया । उत्कण्ठिता ते मातेयं प्रविश क्षिप्रमाश्रमम् ।।
'यव्यलोकं कृतं पुत्र मात्रा ते यदि वा मया । न तन्मनसि कर्तव्यं त्वया तात तपस्विना ।
गतिस्त्वमगतीनां च चक्षुस्त्व हीनचक्षुषाम् । समासक्तास्त्वयि प्राणाः किं त्वं नो नाभिभाषसे ।। १०
मुनिमव्यक्तया वाचा तमहं सजमानया । हीनव्यञ्जनया प्रेक्ष्य भीतभीत इवानवम् ।। ११
मनसः कर्म चेष्टाभिरभिसंस्तभ्य वाग्बलम् । आचचक्षे त्वहं तस्मै पुत्रव्यसनजं भयम् ।। १२
क्षत्रियोऽहं दशरथो नाहं पुत्रो महात्मनः । सजनावमतं दुःखमिदं प्राप्तं स्वकर्मजम् ।। १३
भगवंश्चापहस्तोऽहं सरयूतीरमागतः । जिघांसुः श्वापदं कंचिनिपाने चागत गजम् ॥ १४
तत्र श्रुतो मया शब्दो जले कुम्भस्य पूर्यतः । द्विपोऽयमिति मत्वाय बाणेनाभिहतो मया ।। १५