पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१४ श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे

एवं हि कथयन्त्यास्तु कौसल्यायाः शुभं वचः । मन्दरश्मिरभूत् सूर्यो रजनी चाभ्यवर्तत ।।
अथ प्रसादितो वाक्यदेव्या कौसल्यया नृपः । शोकेन च समाक्रान्तो निद्राया वशमेयिवान् ।।२०

इत्या भीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहलिकायां संहितायाम अयोध्याकाण्डे कौसल्याप्रसादनं नाम द्विषष्टितमः सर्गः त्रिषष्टितमः सर्गः ऋषिकुमारवधाख्यानम्

प्रतिबुद्धो मुहूर्तेन शोकोपहतचेतनः। अथ राजा दशरथश्चिन्तामभ्यवपद्यत ॥
रामलक्ष्मणयोश्चैव विवासाद्वासवोपमम् । आविवेशोपसर्गस्तं तमः सूर्यमिवासुरम् ॥
सभार्ये निर्गते रामे कौसल्यां कोसलेश्वरः । विवक्षुरसितापाङ्गी स्मृत्वा दुष्कृतमात्मनः॥
स राजा रजनी षष्ठी रामे प्रत्राजिते वनम् । अर्धरात्रे दशरथः संस्मरन्' दुष्कृतं कृतम् ॥
स राजा पुत्रशोकातः स्मृत्वा दुष्कृतमात्मनः । कौसल्या पुत्रशोकाामिदं वचनमब्रवीत् ॥ ५
यदाचरति कल्याणि शुभं वा यदि वाशुभम् । तदेव लभते भद्रे कर्ता कर्मजमात्मन' ।
गुरुलाघवमर्थानामारम्भे कर्मणां फलम । दोषं वा यो न जानाति स बाल इति होच्यते ॥
कश्चिदाम्रवणं छित्त्वा पलाशांश्च निषिञ्चति । पुष्पं दृष्ट्वा फले गृध्नुः स शोचति फलागमे ।।
अविज्ञाय फलं यो हि कर्म त्वेवानुधावति । स शोचेत् फलवेलायां यथा किंशुकसेचकः ॥
सोऽहमानवणं छित्त्वा पलाशांश्च न्यषेचयम् । रामं फलागमे त्यक्त्वा पश्चाच्छोचामि दुर्मतिः॥१०
लब्धशब्देन कौसल्ये कुमारेण धनुष्मता । कुमारः शब्दवेधीति मया पापमिदं कृतम् ।। ११
तदिदं मेऽनुसंप्राप्त देवि दुःखं स्वयं कृतम् । संमोहादिव बालेनै यदा स्याद्भक्षितं विषम् ॥ १२
यथान्यः पुरुषः कश्चित् पलाशैमोहितो भवेत् । एवं मयाप्यविज्ञातं शब्दवेध्यमयं फलम् ।। १३
देव्यनूढा त्वमभवो युवराजो भवाम्यहम् । ततः प्रावृडनुप्राप्ता मम कामविवर्धनी ।। १४
"उपास्य हि रसान भौमांस्तप्त्वा च जगदंशुभिः । परेताचरिनां भीमा रविराविशते दिशम् ॥ १५
उष्णमन्तर्दधे सद्यः स्निग्धा ददृशिरे घनाः । ततो जपिरे सर्वे भेकसारङ्गबर्हिणः ।। १६
लिनपक्षोत्तराः स्नाताः कृच्छादिव पतत्रिणः । वृष्टिवातावधूतावान् पादपानभिपेदिरे॥
पतितेनाम्भसा छन्नः पतमानेन चासकृत् । आवभौ मत्तसारङ्गस्तोयराशिरिवाचलः ।। १८
पाण्डरारुणवर्णानि स्रोतांसि विमलान्यपि । सुनुवुगिरिधातुभ्यः सभस्मानि भुजंगवत् ॥ १९
तस्मिन्नतिसुखे काले धनुष्मानिपुमान रथी । व्यायामकृतसंकल्पः सरयूमन्वगां नदीम् ।।