पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्विषष्टितमः सर्गः २१३

इमां गिरं दारुणशब्दसंश्रितां निशम्य राजा विमुमोह दुःखितः ।
ततः स शोकं प्रविवेश पार्थिवः स्वदुष्कृतं चापि पुनस्तदा स्मरन् ।।

इत्याप श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहसिकायां संहितायां अयोध्याकाण्डे कौसल्योपालम्भो नाम एकपष्टितमः सर्गः द्विषष्टितमः सर्गः कौसल्याप्रसादनम्

एवं तु क्रुद्धया राजा राममात्रा सशोकया । श्रावितः परुषं वाक्यं चिन्तयामास दुःखितः।
चिन्तयित्वा स च नृपो मुमोह व्याकुलेन्द्रियः । अथ दीर्घेण कालेन संज्ञामाप परंतपः॥
स संज्ञामुपलभ्यैव दीर्घमुष्णं च निःश्वसन् । कौसल्या पार्श्वतो दृष्ट्वा पुनश्चिन्तामुपागमत् ॥
तस्य चिन्तयमानस्य प्रत्यभान् कर्म दुष्कृतम् । यदनेन कृतं पूर्वमशानाच्छब्दवेधिना ।।
विमनास्तेन शोकेन रामशोकन च प्रभुः । द्वाभ्यामपि महाराजः शोकाभ्यामन्वतप्यत ॥
दह्यमानः स शोकाभ्यां कौसन्यामाह भूपतिः । वेपमानोऽञ्जलिं कृत्वा प्रसादार्थमवाङ्मुखः ॥ ६
प्रमादये त्वां कौसल्ये रचितोऽयं मयाञ्जलिः । वत्सला चानृशंसा च त्वं हि नित्यं परेवपि ।। ७
भर्ता तु खलु नारीणां गुणवानिर्गुणोऽपि वा । धर्म विमृशमानानां प्रत्यक्षं देवि देवतम् ।।
सा त्वं धर्मपरा नित्यं दृष्टलोकपरावरा । नाईसे विप्रियं वक्तुं दुःखितापि सुदुःखितम् ।।
तद्वाक्यं करुणं रानः श्रुत्वा दीनस्य भाषितम् । कौसल्या व्यमृजद्वाष्पं प्रणालीव नवोदकम् ॥ १०
सा मूर्ध्नि बद्ध्वा रुदती राज्ञः पद्ममिवाञ्जलिम् । संभ्रमादब्रवीत् त्रस्ता त्वरमाणाक्षरं वचः ॥ ११
प्रसीद शिरसा याचे भूमौ निपतितास्मि ते । याचितास्मि हता देव हन्तव्याहं न हि त्वया ॥ १२
नैषा हि सा स्त्री भवति श्लाघनीयेन धीमता । उभयोर्लोकयोर्वीर पत्या या संप्रसाद्यते ।। १३
जानामि धर्म धर्मश त्वां जाने सत्यवादिनम् । पुत्रशोकार्तया तत्तु मया किमपि भापितम् ॥ १४
शोको नाशयते धैर्य शोको नाशयते श्रुतम् । शोको नाशयते सर्व नास्ति शोकसमो रिपुः ॥ १५
शक्यमापतितः सोढुं प्रहारो रिपुस्तितः । सोद्भापतितः शोकः सुसूक्ष्मोऽपि न शक्यते॥
वनवासाय रामस्य पञ्चरात्रोऽद्य गण्यते । यः शोकहतहर्षायाः पञ्चचर्पोपमो मम ।।
ते हि चिन्तयमानायाः शोकोऽयं हृदि वर्धते । नदीनामिव वेगेन समुद्रसलिलं महत् ॥ १८