पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकषष्टितमः सर्गः

पथि पृच्छति' वैदेही मामांश्च नगराणि च । गति दृष्टा नदीनां च पादपान विविधानपि ॥ १२
रामं वा लक्ष्मणं वापि पृष्टा जानाति जानकी । अयोध्याक्रोशमात्रे तु विहारमिव संश्रिता ॥ १३
इदमेव स्मराम्यस्याः सहसैवोपजल्पितम् । कैकेयीसंश्रितं वाक्यं नेदानी प्रतिभाति माम् ।।
ध्वंसयित्वा तु तद्वाक्यं प्रमादात् पर्युपस्थितम् । हादनं वचनं सूतो देव्या मधुरमब्रवीत् ।। १५
अध्वना वातवेगेन संभ्रमेणानपेन च । न विगच्छति वैदेह्याश्चन्द्रांशुसदृशी प्रभा ।। १६
सदृशं शतपत्रस्य पूर्णचन्द्रोपमप्रभम । वदनं तद्वदान्याया वैदेह्या न विकम्पते ।।
अलक्तरसरक्ताभावलक्तरमवर्जितौ । अद्यापि चरणौ तस्याः पद्मकोशसमप्रभौ ॥
१८
नू पुरो ष्टहेलेव खेलं गच्छति भामिनी । इदानीमपि वैदेही तद्रागान्न्यस्तभूषणा ।। १९
गज वा वीक्ष्य मिह वा व्यानं वा वनमाश्रिता । नाहारयति संत्रामं बाहू रामस्य संश्रिता ।।
न शोच्यारते न चात्मा ते शोच्यो नापि जनाधिपः । इदं हि चरितं लोके प्रतिष्ठास्यति शाश्वतम् ॥
विधूय शोकं परिदृपमानमा महर्षियाने पथि मुव्यवस्थिताः ।
वन रता वन्यफलाशनाः पितुः शुभां प्रतिज्ञां परिपालयन्ति ते ।।
२२
तथापि मूनेन सुयुक्तवादिना निवार्यमाणा सुनशोककर्शिता ।
न चैव देवी विग्राम कूजितात् प्रियेति पुत्रेति च राघवेति च ।।

२३ इत्याचे श्रीमद्रामावण वाल्मीकीये आदिकाव्ये चतुनिशतिसहस्त्रिकायां संहितायां अयोध्याकाण्ड कामन्यासमाचामन नाम घष्टितमः सर्गः २ एकपष्टितमः सर्गः कौसल्योपालम्भः

वनं गते धर्मरते रामे रमयतां वरे । कौसल्या रुदती स्वार्ता भर्तारमिदमब्रवीत् ।।
यद्यपि त्रिषु लोकपु प्रथितं ते महद्यशः । सानुक्रोशो वदान्यश्च प्रियवादी च राघवः ।।
कथं नरवर श्रेष्ठ पुत्रौ तौ सह सीतया । दुःखितौ सुखसंवृद्धौ वने दुःख सहिष्यतः ।।
सा नूनं तरुणी श्यामा सुकुमारी मुखोचिता । कथमुष्णं च शीतं च मैथिली प्रसहिष्यते ॥
भुक्त्वाशनं विशालाक्षी सूपदंशान्वितं शुभम । वन्यं नैवारमाहारं कथं सीतोपभोक्ष्यते ॥
गीतवादिननिर्घोष श्रुत्वा शुभमनिन्दिता । कथं ऋच्यादसिंहानां शब्दं श्रोष्यत्यशोभनम् ।।
महेन्द्रध्वजसंकाशः क नु शेने महाभुजः । भुजं परिघमंकाशमुपधाय महाबलः' ।