पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्ड

न मां जानीत दुःखेन मियमाणमनाथवत् । स तेन राजा दुःखेन भृशमर्पितचेतनः ॥
अवगाढः सुदुष्पारं शोकसागरमब्रवीत् । रामशोकमहावेगः सीताविरहपारगः ॥
श्वसितोर्मिमहावर्ती बाष्पफेनजलाविलः । बाहुविक्षेपमीनौघो विक्रन्दितमहास्वनः ।।
प्रकीर्णकेशशैवालः कैकेयीबडबामुखः । ममाश्रुवेगप्रभवः कुब्जावाक्यमहाग्रहः ॥
वरवेलो नृशंसाया रामप्रव्राजनायतः । यस्मिन् बत निमनोऽहं कौसल्ये राघवं विना ॥
दुस्तरो जीवता देवि मयायं शोकसागरः ।।
अशोभनं योऽहमिहाद्य राघवं दिदृक्षमाणो न लभे सलक्ष्मणम् ।
इतीव राजा विलपन महायशाः पपात तूर्ण श्यने स मूर्च्छितः ।।
इति विलपति पार्थिवे प्रनष्टे करुणतरं द्विगुणं च रामहेतोः ।
वचनमनुनिशम्य तस्य देवी भयमगमत् पुनरेव राममाता ।

इत्याचे श्रीमद्रामायणे वाल्मीकीये आदिकाम्ये चतुविशतिसहमिकाया सहितायाम् अयोध्याकाण्ड दशरथविलापो नाम एकनिषष्टितमः मर्ग:

षष्टितमः सर्गः कौसल्यासमाश्वासनम्

ततो भूतोपसृष्टेव वेपमाना पुनः पुनः । धरण्यां गतसत्त्वेव कौसल्या सूतमब्रवीत् ॥ १
नय मां यन्त्र काकुन्स्थः सीता यत्र च लक्ष्मणः । नान विना क्षणमप्यत्र जीवितुं नोत्महे महम् ।। २
निवर्तय रथं शीघ्र दण्डकानय मामपि । अथ तान्नानुगच्छामि गमिष्यामि यमक्षयम ।।
बाष्पवेगोपहतया स वाचा मजमानया । इदमाश्वासयन देवीं सूतः प्राश्चलिरनवीन ।
त्यज शोकं च मोहं च संभ्रमं दुःख तथा । व्यवधूय च संतापं वने वत्स्यति गधवः ।।
लक्ष्मणश्चापि रामस्य पादौ परिचरन् वने। 'आराधयति धर्मज्ञः परलोकं जितेन्द्रियः ।। ६
विजनेऽपि वने सीता वासं प्राप्य गृहेष्विव । विनम्भ लभतेऽभीता राम विन्यस्तमानसा ॥
नास्या दैन्य कृनं किचित् सुसूक्ष्ममपि लक्ष्यते । उचितेव प्रवासानां वैदेही प्रतिभाति मे ।।
नगरोपवनं गत्वा यथा स्म रमते पुरा । तथैव रमते सीता निर्जनेषु वनेष्वपि ।।
बालेव रमते सीता बालचन्द्रनिभानना । गमा रामे ह्यधीनात्मा विजनऽपि बने सती॥ १०
तगतं हृदयं हास्यास्तदधीनं च जीवितम् । अयोध्यापि भवेत्तम्या गमहीना तथा वनम ।।