पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकोनषष्टितमः सर्गः २०९

अपि वृक्षाः परिम्लानाः सपुष्पाकुरकोरकाः । उपतप्तोदका नद्यः पल्बलानि सरांसि च ॥
परिशुष्कपलाशानि वनान्युपवनानि च । न च सर्पन्ति सत्वानि व्याला न प्रचरन्ति च ॥
रामशोकाभिभूतं तनिष्कूजमभवद्वनम् । लीनपुष्करपत्राश्च नद्यश्च कलुषोदकाः ।।
संतप्तपद्माः पद्मिन्यो लीनमीनविहंगमाः । जलजानि च पुष्पाणि माल्यानि स्थलजानि च ॥
नाय भान्त्यल्पगन्धीनि फलानि च यथापुरम । अत्रोद्यानानि शून्यानि प्रलीनविहगानि च ।।
न चाभिरामानारामान पश्यामि मनुजर्षभ । प्रविशन्तमयोध्यां मां न कश्चिदभिनन्दति ।।
नरा राममपश्यन्तो निःश्वमन्ति मुहुर्मुहुः । देव गजरथं दावा विना राममिहागसम ॥
दुःखादश्रुमुखः सर्वो गजमार्गगतो जनः । भ्यर्विमानैः प्रासादरवेक्ष्य रथमागतम ।
हाहाकारकृता नार्यों रामादर्शनकर्शिताः । आयर्विमलेनेग्श्रुवेगपरिप्लुतैः ।।
अन्योन्यमभिवोक्षन्तेऽव्यक्तमार्ततराः स्त्रियः । नामित्राणां' न मित्राणामुदामीनजनस्य च ॥
अहमार्ततया किंचिदिशेपमुपलक्षय । अप्रष्टमनुष्या च दीननागतुरंगमा ।
आर्तम्वरपरिग्लाना चिनिःश्वसितनिःम्बना । निगनन्दा महाराज रामप्रव्राजनानुरा ।
कोमल्ल्या पुत्रहीनेव अयोध्या प्रतिभाति मा । स्मृनस्य वचनं श्रुत्या राजा परमदीनया ।।
बाप्पोपहतया वाचा तं मृतमिदमनवीन । कैकय्या हि नियुक्तेन पापाभिजनभावया ।।
न मया मन्त्रकुटालवृद्धः सह सर्मार्थनम । न सुद्धिर्न चामान्यमन्त्रायत्वा न नैगमैः ।।
मयायमर्थ: ममोहात बीहतोः महमा कृतः । भवितव्यतया नूनमिदं वा व्यसनं महत् ।।
कुलस्याम्य विनाशाय प्राप्त मूल यहच्छया । मूत यद्यम्ति ते किचिन्मया तु सुकृतं कृतम ।।
त्वं प्रापयाशु मां गमं प्राणाः मंत्वान्त माम । यद्यद्यापि ममैवाना निवर्तयतु राघवम ।।
न शक्ष्यामि विना रामं मुहर्तमपि जीवितुम । अथचापि महाबाहुर्गतो दूरं भविष्यति ॥
मामेव रथमारोप्य शीघ्रं गमाय दर्शय । वृत्तदंष्ट्रो महेष्वासः कासौ लक्ष्मणपूर्वजः ।।
यदि जीवामि माध्वेनं पश्यय सीतया सह । लोहितानं महाबाहुमामुक्तमणिकुण्डलम ॥
रामं यदि न पश्येयं गमिष्यामि यमक्षयम । अतो नु कि दुःखतरं योऽहमिक्ष्वाकुनन्दनम ।।
इमामवस्थामापन्नो नेह पश्यामि गघवम । हा राम रामानुज हा हा वैदेहि तपस्विनि ।।