पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०६ श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे

तेषां शशंस गङ्गायामहमापुच्छ्य राघवम् । अनुशातो निवृत्तोऽस्मि धार्मिकेण महात्मना । १०
ते तीर्णा इति विज्ञाय वाष्पपूर्णमुखा जनाः । अहो धिगिति निःश्वस्य हा रामेति च चुकुशुः ॥ ११
शुश्राव च वचस्तेपो वृन्दं वृन्दं च तिघ्ताम् । हताः स्म खलु ये नेह पश्याम इति राघवम्।।१२
दानयज्ञविवाहेषु समाजेषु महत्सु च । न द्रक्ष्यामः पुनर्जातु धार्मिक राममन्तरा ॥ १३
किं समर्थ जनस्यास्य किं प्रियं किं सुखावहम् । इति रामेण नगरं 'पितृवत् परिपालितम् ॥ १४
वातायनगतानां च स्त्रीणामन्वन्तरापणम् । रामशोकाभितप्तानां शुश्राव परिदेवनम् ।।
स राजमार्गमध्येन सुमन्त्रः पिहिताननः । यत्र राजा दशरथस्तदेवोपययौ गृहम् ॥ १६
सोऽवतीर्य रथाच्छीबूं राजवेश्म प्रविश्य च । कक्ष्याः सप्ताभिचक्राम महाजनसमाकुलाः ।।
हभ्यर्विमानैः प्रासादैरवेक्ष्याथ समागतम । हाहाकारकृता नार्यों रामादर्शनकर्शिताः ।। १८
आयतैर्विमलै त्रैग्श्रुवेगपरिप्लुतैः । अन्योन्यमभिवीक्षन्तेऽव्यक्तमार्ततराः खियः ।। १९
ततो दशरथस्त्रीणां प्रासादेभ्यन्ततस्ततः । रामशोकाभितप्तानां मन्दं शुश्नाव जल्पितम ।।
सह रामेण निर्यातो विना राममिहागतः । सूतः किं नाम कौसल्यां क्रोशन्ती प्रतिवक्ष्यति ॥ २१
यथा च मन्ये दुर्जीवमेवं न सुकर ध्रुवम। आच्छिद्य पुत्रे निर्यात कौमल्या यत्र जीवति ॥२२
सत्यरूपं तु तद्वाक्यं राज्ञः स्त्रीणां निशामयन् । प्रदीप्रमिव शोकेन विवेश सहमा गृहम ॥२३
स प्रविश्याष्टमीं कक्ष्यां राजानं दीनमातुरम । पुत्रशोकपरियनमपश्यत पाण्डरे गृहे ।। २४
अभिगम्य तमासीनं नरेन्द्रमभिवाद्य च । सुमन्त्री रामवचनं यथोक्तं प्रत्यवेदयन ।।
स तूष्णीमेव तच्छ्रुत्वा राजा विभ्रान्तचेतनः । मूञ्छितो न्यपतद्भूमौ रामशोकाभिपीडित: ।। २६
ततोऽन्तःपुरमाविद्धं मूञ्छिते पृथिवीपतौ । उच्छित्य बाहू चुक्रोश नृपतौ पनिते क्षितौ ।। २७
सुमित्रया तु सहिता कौसल्या पतितं पतिम् । उत्थापयामास तदा वचनं चेदमब्रवीत् ॥ २८
इमं तस्य महाभाग दूतं दुष्करकारिणः । वनवामादनुप्राप्नं कम्मान्न प्रतिभापस ॥
अद्येममनयं कृत्वा व्यपत्रपसि राधव । उत्तिष्ठ मुकृतं तेऽन्तु शोके न स्यान् सहायता ॥३०
देव यस्या भयाद्राम नानुपृच्छसि सारथिम । नह तिष्ठति कैकेयी विसन्धं प्रतिभाव्यताम् ॥३१
सा तथोक्त्वा महाराज कौसल्या शोकलालसा । धरण्यां निपपानाशु बाप्पविष्लुतभाषिणी ।।३२
विलपन्ती तथा दृष्ट्वा कौसल्या पनितां भुवि । पतिं चावेक्ष्य ताः सर्वाः समन्तागुरुदुः स्त्रियः॥ ३३