पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९८ श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे

अथाब्रवीन्महाबाहुः सुमित्रानन्दवर्धनम् । भव संरक्षणार्थाय सजने विजनेऽपि वा ।। ९४
अवश्यं रक्षणं कार्यमदृष्टे विजने वने । अग्रतो गच्छ सौमित्र सीता त्वामनुगच्छतु ।।
पृष्ठतोऽहं गमिष्यामि त्वां च सीतां च पालयन् । अन्योन्यन्येह नो रक्षा कर्नव्या पुरुषर्षभ ।। ९६
न हि तावदतिक्रान्ता सुकरा काचन क्रिया' । अद्य दुःखं तु वैदेही वनवामस्य वेत्स्यति ॥ ९७
प्रनष्टजनसंबाध क्षेत्रारामविवर्जितम् । विषमं च प्रपातं च वनं ह्या प्रवेक्ष्यात ॥
९८
श्रुत्वा रामस्य वचनं प्रतस्थे लक्ष्मणोऽमतः । अनन्तरं च सीताया राघवो ग्घुनन्दनः ।।
गतं तु गङ्गापरपारमाशु राम सुमन्त्रः प्रततं निरीक्ष्य ।
अध्वप्रकर्षानिवृनदृष्टिर्मुमोच बाष्पं व्यथितस्तपस्वी ।।
स लोकपालप्रतिमप्रभावस्तीत्वा महात्मा वरदो महानदीम् ॥
ततः समृद्धाशुभसस्यमालिनः क्रमेण वत्मान मुदिनानुपागमन ।।
तौ तत्र हत्वा चतुरो महामृगान वराहमृश्य पृपतं महारुरुम् ।
आदाय मेध्यं त्वरित बुभुक्षिनी वासाय कल्ये ययतुर्वनस्पतिम् ।। १०२

इत्यार्य श्रीमद्रामायण वाल्मीकीय आदिकाव्य चार्विशनिमहमिकाया महिलायाम अयोध्याकाण्ड गङ्गातरण नाम द्विपञ्चाश मगः त्रिपञ्चाशः मर्गः रामसंक्षोभः

स तं वृक्ष ममासाद्य सन्ध्यामन्याम्य पश्चिमाम । गमो ग्मयनां श्रेष्ट इति होवाच लक्ष्मणम ॥
अद्येयं प्रथमा गनिर्जाता' जनपदाहिः । या सुमन्त्रेण रहिता तो नोत्कण्ठितुमर्हसि ॥
जागर्तव्यमतन्द्रिभ्यामद्य प्रभृति रात्रिपु । योगक्षेमो हि सीताया वर्तने लक्ष्मणावयोः ।।
रात्रि कथंचिंदवेमां सौमित्रे वर्नयामहे । उपावतामहे भूमावास्तीर्य म्वयमजितः ।।
स तु संविश्य मेदिन्यां महाशियनोचितः । इमाः सौमित्रये रामा व्याजहार कथाः शुभाः ।।
ध्रुवमद्य महाराजो दुःखं स्वपिति लक्ष्मण ! कृनकामा तु कैकयी नुष्टा भवितुमर्हति ।।
सा हि देवी महाराज कैकयी राज्यकारणात । अपि न च्यावयेत प्राणान दृष्टा भरतमागतम ॥७