पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चचत्वारिंशः सर्गः
१८५
<poem>अवेक्षमाणः सस्नेहं चक्षुषा प्रपिबन्निव । उवाच रामः स्नेहेन ताः प्रजाः स्वाः प्रजा इव ॥ ५
या प्रीतिर्बहुमानश्च मय्ययोध्यानिवासिनाम् । मत्प्रियार्थं विशेषेण भरते सा विधीयताम् ॥ ६
स हि कल्याणचारित्रः कैकेय्यानन्दवर्धनः । करिष्यति यथावद्वः प्रियाणि च हितानि च ॥ ७
ज्ञानवृद्धो वयोबालो मृदुर्वीर्यगुणान्वितः । अनुरूपः स वो भर्ता भविष्यति भयापहः ॥ ८
स हि राजगुणैर्युक्तो युवराजः समीक्षितः । अपि चापि मया शिष्टैः कार्यं वो भर्तृशासनम् ॥ ९
न संतप्येद्यथा चासौ वनवासं गते मयि । महागजस्तथा कार्यो मम प्रियचिकिर्षया ॥ १०
यथा यथा दाशरथिर्धर्ममेवास्थितोऽभवत् तथा तथा प्रकृतयो रामं पतिमकामयन् ॥ ११
बाष्पेण पिहितं दीनं रामः सौमित्रिणा सह । चकर्षेव गुणैर्बद्धं जनं पुरनिवासिनम् ॥ १२
ते द्विजास्त्रिविधं वृद्धा ज्ञानेन वयसौजसा । वयःप्रकम्पशिरसो दूरादूचुरिदं वचः ।। १३
वहन्तो जवना रामं भो भो जात्यास्तुरङ्गमाः । निवर्तध्वं न गन्तव्यं हिता भवत भर्तरि ।। १४
कर्णवन्ति हि भूतानि विशेषेण तुरङ्गमाः। यूयं तस्मान्निवर्तध्वं याचनां प्रतिवेदिताः॥
धर्मतः स विशुद्धात्मा वीर: शुभदृढव्रतः । उपवाह्यस्तु वो भर्ता नापवाह्यः पुराद्वनम् ॥ १६
एवमार्तप्रलापांस्तान् वृद्धान् प्रलपतो द्विजान् । अवेक्ष्य सहसा रामो रथादवततार ह ।। १७
पद्भयामेव जगामाथ ससीतः सहलक्ष्मणः । संनिकृष्टपदन्यासो रामो वनपरायणः । १८
द्विजातींस्तु पदातींस्तान् रामश्चारित्रवत्सलः । न शशाक घृणाचक्षुः परिमोक्तुं रथेन सः ।। १९
गच्छ तमेव तं दृष्ट्वा रामं संभ्रान्तचेतसः । ऊचुः परमसंतप्ता रामं वाक्यमिदं द्विजाः ।। २०
ब्राह्मण्यं कृत्स्नमेतत्त्वां ब्रह्मण्यमनुगच्छति । द्विजस्कन्धाधिरूढास्त्वामग्नयोऽप्यनुयान्त्यमी ।। २१
वाजपेयसमुत्थानि छत्राण्येतानि पश्य नः । पृष्टतोऽनुप्रयातानि मेघानिव जलात्यये ।।
अनवाप्तातपत्रस्य रश्मिसंतापितस्य ते । एभिश्छायां करिष्यामः स्वैश्छत्रैर्वाजपेयिकैः ।। २३
का हि नः सतत बुद्धिर्वेदमन्त्रानुसारिणी । त्वत्कृते सा कृता वत्स वनवासानुसारिणी ।।
हृदयेष्वेव तिष्ठन्ति वेदा ये नः परं धनम् । वत्स्यन्तपि गृहेष्वेव दाराश्चारित्ररक्षिताः ॥
न पुनर्निश्चयः कार्यस्त्वद्गतौ सुकृता मतिः । त्वयि धर्मव्यपेक्षे तु किं स्याद्धर्ममपेक्षितुम् ।। २६
याचितो नो निवर्तस्व हंसशुक्लशिरोरुहैः । शिरोभिर्निभृताचार महीपतनपांसुलैः ।।
बहूनां वितता यज्ञा द्विजानां य इहागताः । तेषां समाप्तिरायत्ता तव वत्स निवर्तने ।
भक्तिमन्ति हि भूतानि जङ्गमाजङ्गमानि च । याचमानेषु राम त्वं भक्तिं भक्तेषु दर्शय ।। २९
अनुगन्तुमशक्तास्त्वां मूलैरुद्धतवेगिनः । उन्नता वायुवेगेन विक्रोशन्तीव पादपाः ।। ३०
निश्चेष्टाहारसंचारा वृक्षैकस्थानविष्ठिताः । पक्षिणोऽपि प्रयाचन्ते सर्वभूतानुकम्पिनम् ।। ३१
एवं विक्रोशतां तेषां द्विजातीनां निवर्तने । ददृशे तमसा तत्र वारयन्तीव राघवम् ॥ ३२

</poem>