पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१८४

श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे

दैवतं दैवतानां च भूतानां भूतसत्तमः । तस्य के ह्यगुणा देवि वने वाप्यथ वा पुरे।। १६
पृथिव्या सह वैदेह्या श्रिया च पुरुषर्षभः। क्षिप्रं तिसृभिरेताभिः सह रामोऽभिषेक्ष्यते ॥१७
दुःखजं विनृजन्त्यस्र्ं निष्क्रामन्तमुदीक्ष्य यम । अयोध्यायां जनाः सर्वे शोकवेगसमाहताः ॥१८
कुशचीरधरं वीरं गच्छन्तमपराजितम् । सीतेवानुगता लक्ष्मीस्तस्य किं नाम दुर्लभम् ।
धनुर्ग्रहवरो यस्य बाणखड्गास्त्रभृत् स्वयम् । लक्ष्मणो व्रजति ह्यग्रे तस्य किं नाम दुर्लभम्॥२०
निवृत्तवनवासं तं द्रष्टासि पुनरागतम्। जहि शोकं च मोहं च देवि मत्यं ब्रवीमि ते ।। २१
शिरसा चरणावेतौ वन्दमानमनिन्दिते । पुनर्द्रक्ष्यसि कल्याणि पुत्रं चन्द्रमिवोदितम् ॥
पुनः प्रविष्टं दृष्ट्वा तमभिषिक्तं महाश्रियम् । समुत्प्रक्ष्यसि नेत्राभ्यां क्षिप्रमानन्दजं पयः ॥ २३
मा शोको देवि दुःखं वा न रामे दृश्यतेऽशिवम् | क्षिप्रं द्रक्ष्यसि पुत्रं त्वं ससीतं सहलक्ष्मणम् ॥६४
त्वयाशेषो जनश्चायं समाश्चान्यो यदानघे । किमिदानीमिदं देवि करोषि हृदि विक्लबम् ॥
नार्हा त्वं शोचितुं दवि यस्यास्ते राघवः सुतः । न हि रामात् परो लोके विद्यते सत्पथे स्थितः ६
अभिवादयमानं तं दृष्ट्वा ससुहृदं सुतम् । मुदाश्च मोक्ष्यसे क्षिप्रं मेघलेखेव वार्षिकी ॥
पुत्रस्ते वरदः क्षिप्रमयोध्यां पुनरागतः । पाणिभ्यां मृदुपीनाभ्यां चरणौ पीडयिष्यति ॥
अभिवाद्य नमस्यन्तं शूरं ससुहृदं सुतम् । मुदास्रैः प्रोक्ष्यसि पुनर्मेघराजिरिवाचलम् ।।
आश्वासयन्ती विविधैश्च वाक्यैर्वाक्योपचारे कुशलानवद्या ।
रामस्य तां मातरमेवमुक्त्वा देवी सुमित्रा विरराम रामा ॥
निशम्य तल्लक्ष्मणमातृवाक्यं रामस्य मातुर्नरदेवपत्न्याः ।
सद्यः शरीरे विननाश शोकः शरद्गतो मेघ इवाल्पतोयः ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुश्चत्वारिंशति सर्गकाया सुमित्रायाम् अयोध्याकाण्डे सुमित्राश्वासना नाम चतुश्चत्वारिंशः सर्गः

पञ्चचत्वारिंशः सर्गः पौग्याचनम

अनुरक्ता महात्मानं रामं सत्यपराक्रमम् । अनुजग्मुः प्रयान्तं तं वनवासाय मानवाः ॥
निवर्तितेऽपि च बलात् सुहृद्धर्मेण राजनि। नैव ते संन्यवर्तन्त रामस्यानुगता रथम् ।।
अयोध्यानिलयानां हि पुरुषाणां महायशाः । बभूव गुणसम्पन्नः पूर्णचन्द्र इव प्रियः ॥
स याच्यमानः काकुत्स्थः स्वाभिः प्रकृतिभिस्तदा । कुर्वाणः पितरं सत्यं वनमेवान्वपद्यत ॥