पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१७२ श्रीमद्वमीकिरामायणे अयोध्याकाण्डे कैकेय्यां मुक्तलज्ञ्न्यां वदन्त्यामतिदारुणम् । राजा दशरथो वाक्यमुवाचायतलोचनाम् ॥ १३ महन्तं किं तुदसि मां नियुज्य धुरि माहिते । अनार्ये कृन्यमारब्धं किं न पूर्वमुपारुधः ॥ १४ तस्यैतत् क्रोधसंयुक्तमुक्तं श्रुत्वा वराङ्गना । कैकयी द्विगुणं क्रुद्वा राजानमिदमब्रवीत् ॥ १५ तवैव वंशे सगरो ज्येधपुत्रमुपारुधन् । असमञ्ज इति ख्यातं तथायं गन्तुमर्हति ॥ १६ एषमुक्तो धिगित्येव राजा दशरथोऽब्रवीत् । व्रीडितश्च जनः सर्वः सा च तनावबुध्यत ॥ १७ तत्र वृद्धो महामात्रः सिद्धार्थो नाम नामतः । शुचिर्बहुमतो राज्ञः कैकेयोमिदमब्रवीत् ॥ १८ असमञ्जो गृहीत्वा तु क्रीडतः पथि दारकान् । सरप्वाः प्रक्षिपन्नप्सु रमते तेन दुर्मतिः ॥ १९ तं दृष्ट्वा नागराः सर्वे क्रुद्वा राजानमब्रुवन् । असमञ्जं वृणीवैकमरमान वा राष्ट्रवर्धन ॥२० तानुवाच ततो राजा किंनिमित्तमिदं भयम् । ताश्चापि राज्ञा संपृष्टा वाक्यं प्रकृतयोऽब्रुवन्॥२१ क्रीडतस्त्वेव नः पुत्रान् बालानुद्वान्तचेतनः । सरयत्रां प्रक्षिपन् मौार्ख्यादतुलां प्रीतिमश्नुते ॥२२ स तासां वचनं श्रुत्वा प्रकृतीनां नराधिपः । तं तत्याजाहितं पुत्रं तासां प्रियचिकीर्पया ॥ २३ सं यानं शीघ्रमारोप्य सभार्य सपरिच्छदम । यावज्जीवं विवास्याऽयमिति स्वानन्वशात्पिता॥ २४ स फालपिटकं गृह्य गिरिदुर्गाण्यलोकयन् । दिशः सर्वास्त्वनुचरन् स यथा पापकर्मकृत् ॥ २५ इत्येवमत्यजद्राजा मगरो वै सुधार्मिकः । रामः किमकरोत् पापं येनैग्नुपरुध्यत ॥ २६ न हि कंचन पश्यामो गधवस्यागुणं वयम् । दुर्लभी ह्यस्य निरयः शशाङ्कस्येव कल्मपम् ॥२७ अथवा देबि दोपं त्वं कंचित पश्यसि राघवे । तमद्य बृहि तत्त्वेन ततो रामो विवास्यते ॥ २८ अदुष्टस्य हि संत्यागः सत्पथे निग्नस्य च । निर्दहेदपि शक्रस्य घुति धर्मनिरोधनात् ॥ २९ तदलं देवि रामस्य श्रिया विहतया त्वया । लोकतोऽपि हि ते रक्ष्यः परिवादः शुभानने ॥३० श्रुत्वा तु सिद्धार्थवचो राजा श्रान्ततरस्वनः । शोकोपहतया वाचा कैकेयीमिदमब्रवीत् ॥ ३१ एतद्वचो नेच्छसि पापवृत्ते हितं न जानामि ममात्मनो वा । आस्थाय मार्ग कृपणं कुचेष्टा चेष्टा हि ने माधुपथादपेता ॥ ३२ अनुत्रजिष्याम्यहमद्य रामं राज्यं परित्यज्य धनं सुग्वं च । सहैव गझा भरतेन च त्वं यथासुखं भुड्श्व चिराय राज्यम ॥ ३३ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहसिकाया संहितायाम् अयाझ्याकाण्ड सिद्धाथप्रतिबंधन नाम षटत्रिशः सर्ग: सप्तत्रिंशः सर्गः चौरपरिग्रहनिमिसवसिष्ठक्रोधः महामात्रवचः श्रुत्वा रामो दशरथं तदा । अभ्यभाषत वाक्यं तु विनयज्ञो विनीतवत् ॥ १ राक्त्तभोगस्य मे राजन् वने वन्येन जीवतः । किं कार्यमनुयात्रेण त्यक्त्सङ्गस्य सर्वतः ॥ २