पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीमद्वामीकिरमायणे अयोध्याकाण्डे

एकत्रिंशः सर्गः मणनानुगमन भ्यनुज्ञा एवं श्रुत्वा तु संवाद लक्ष्मणः पूर्वमागतः । बासष्पपर्याकुलमुखः शोकं सोढुमशक्नुवन् । १ स भ्रातुश्चरणौ गाढं निपीड्य रघुनन्दनः । सीतामुवाचातियशा राघवं च महात्रतम् ॥ १ यदि गन्तुं कृता बुद्धिर्वनं मृगगजायुतम् । अहं त्वानुगमिष्यामि वनमग्रे धनुर्धरः ॥ मया समेतोऽरण्यानि बहूनि विचरिष्यसि । पक्षिभिर्मगयूथैश्च संघुष्टानि समन्ततः ।। न देवलोकाक्रमणं नामरत्वमहं वृणं । ऐश्वयं वापि लोकानां कामये न त्वया विना ।। एवं त्रुवाणः सौमित्रिर्वनवासाय निश्चितः । रामेण बहुभिः सान्त्वैर्निपिद्धः पुनरब्रवीन् ।। अनुज्ञातश्च भवता पूर्वमेव यदस्म्यहम् । किमिदानीं पुनरिदै क्रियते मे निवारणम् ।। यदर्थ प्रतिषेधो मे क्रियते गन्तुमिच्छतः । एतदिच्छामि विज्ञातुं संशयोऽयं ममानघ । ततोऽत्रवीन्महातेजा रामो लक्ष्मणमप्रतः । स्थितं प्राग्गामिनं वोरं याचमानं कृताञ्जलिम॥ स्निग्धो धर्मरतो वीर सततं सत्पवे स्थितः । प्रियः प्राणसमो वश्यो भ्राता चापि सख च मे ॥१० मयाद्य सह सौमित्रे त्वयि गच्छते तद्वनम् । को भरिष्यति कौसल्या सुमित्रां वा यशस्विनीम् ॥ ११ अभिवपति कामयः पर्जन्यः पृथिवीमिय । म कामपाशाय तो महातेजा महोपतिः ।। १२ सा हि राज्यमिदं प्राप्य नृपस्या श्वपतेः सुता। दुःखितानं सपत्रीनां न करिष्यति शोभनम् ॥ १३ न स्मरिष्यति कौसल्या सुमित्रां च मुदुःखिताम् । भरतो राज्यमासाद्य कैंकय्यां पर्यपस्थितः ।। १४ तामायौ स्वयमेवेह राजानुग्रहणेन वा । सौमित्रे भर कौसल्यानुक्कमर्थमिमं चर ।। १५ एवं मयि च ते भक्तिभविष्यति सुदर्शिता । धर्मज्ञ गुरुपूजायां धर्मश्च प्यतुलो महान ।। १६ एवं कुरुष्व सौमित्र मत्कृते रघुनन्दन । अस्माभिर्विप्रहीणाया मातुर्नो न भवेत् सुग्वम् ।। एवमुक्तस्तु रामेण लक्ष्मणः श्लक्ष्णया गिरा। प्रत्युवाच तदा रामं वाक्यज्ञो वाक्यकोविदम् ।। १८ तवैव तेजमा वीर भरतः पूजयिष्यति । कोसल्यां सुमित्रां च प्रयतो नात्र संशयः ।। १९ यदि दुःस्थो न रक्षेत भरतो राज्यमुत्तमम् । प्राप्य दुर्मनसा वोर गर्वेण च विशेषतः ।। तमहं दुर्मत कर वधिण्यामि न संशयः । तत्पक्ष्यानपि तान् सर्वलोक्यपि किं तु सा ।। २१ कौसल्या विभृयादार्या सहनमपि मद्विधान् । यस्याः सहस्र प्रामाणां संप्राप्तमुपजोविनाम् ॥ तदात्मभरणे चैत्र मम मातुम्तथैव च । पर्याप्त मद्विधानां च भरणाय मनस्विनी ॥ २३ कुरुष्व मामनुचरं वैधम्यैव नेह विद्यते । कृतार्थोऽहं भविष्यामि तव चार्थः प्रकल्पते ॥ धनुरादाय सशरं खनित्रपिटकाधरः । अग्रतस्ते गमिष्यामि पन्थानमनुदर्शयन् ॥ २० २२ २४ १. उपजाबनम् ब २. सम्