पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

विंशः सर्गः

कौसल्याक्रन्दः

तस्मिंस्तु पुरुषव्याघ्रे निष्क्रामति कृताञ्जलौ । आर्तशब्दो महाञ्ज्ज्ञे स्त्रीणामन्तःपुरे तदा ॥ १
कृत्येष्वचोदितः पित्रा सर्वस्यान्तःपुरस्य च । गतिर्यः शरणं चापि स रामोऽद्य प्रवत्स्यति ॥ २
कौसल्यायां यथा युक्तो जनन्यां वर्तते सदा । तथैव वर्ततेऽस्मासु जन्मप्रभृति राघवः ॥ ३
न क्रुध्यत्यभिशप्तोऽपि क्रोधनीयानि वर्जयन् । क्रुद्धान् प्रसादयन् सर्वान् स इतोऽद्य प्रवत्स्यति ॥ ४
अबुद्धिर्बत नो राजा जीवलोकं चरत्ययम् । यो गतिं सर्वलोकानां परित्यजति राघवम ॥ ५
इति सर्वा महिष्यस्ता विवत्सा इव धेनवः । पतिमाचुक्रुशुश्चैव सस्वरं चापि चुक्रुशुः ॥ ६
स हि चान्तःपुरे घोरमार्तशब्दं महीपतिः । पुत्रशोकाभिसंतप्तः श्रुत्वा व्यालीयनासने ॥ ७
रामस्तु भृशमायस्तो निःश्वसन्निव कुञ्जरः । जगाम सहितो भ्रात्रा मातुरन्तःपुरं वशी ॥ ८
सोऽपश्यत् पुरुषं तत्र वृद्धं परमपूजितम । उपविष्टं गृहद्वारि तिष्ठतश्चापरान बहून् ॥ ९
दृष्दैव तु तदा रामं ते सर्वे सहसोत्थिताः । जयेन जयतां श्रेष्ठं वर्धयन्ति स्म राघवम् ॥ १०
प्रविश्य प्रथमां कक्ष्यां द्वितीयायां ददर्श सः । ब्राह्मणान् वेदसंपन्नान् वृद्धान राज्ञाभिसत्कृतान् ॥ ११
प्रणम्य रामस्तान् वृद्धांस्तृतीयायां ददर्श सः । स्त्रियो वृद्धाश्च बालाश्च द्वाररक्षणतत्पराः ॥ १२
वर्धयित्वा प्रहष्टास्ताः प्रविश्य च गृहं स्त्रियः । न्यवेदयन्त त्वरिता राममातुः प्रियं तदा ॥ १३
कौसल्यापि तदा देवी रात्रिं स्थित्वा समाहिता । प्रभाते त्वकरोत् पूजां विष्णोः पुत्रहितैषिणी ॥ १४
सा क्षौमवसना हृष्टा नित्यं व्रतपरायणा । अग्निं जुहोति स्म तदा मन्त्रवत् कृतमङ्गला ॥ १५
प्रविश्य च तदा रामो मातुरन्तःपुरं शुभम् । ददर्श मातरं तत्र हावयन्ती हुताशनम् ॥ १६
देवकार्यनिमित्तं च तत्रापश्यत् समुद्यताम । दध्यक्षतघृतं चैव मोदकान् हविषस्तथा ॥ १७
लाजान माल्यानि शुक्लानि पायसं कृमरं तथा । समिधः पूर्णकुम्भांश्च ददर्श रघुनन्दनः ॥ १८
तां शुक्लक्षौमसंवीतां व्रतयोगेन कर्शिताम् । तर्पयन्तीं ददर्शाद्भिर्देवतां वरवर्णिनीम ॥ १९
सा चिरस्यान्मजं दृष्ट्वा मातृनन्दनमागतम् । अभिचक्राम संहृष्टा किशोरं घडवा यथा ॥ २०
स मातरमभिक्रान्तामुपसंगृह्य राघवः । परिष्वक्तश्च बाहुभ्यामुपाघ्रातश्च मूर्धनि ॥ २१
तमुवाच दुगधर्ष राघवं सुतमात्मनः । कौसल्या पुत्रवात्सल्यादिदं प्रियहितं वचः ॥ २२
वृद्धानां धर्मशीलानां राजर्षीणां महात्मनाम् । प्राप्नुह्यायुश्व कीर्तिं च धर्मं चाप्युचितं कुले ॥ २३
सत्यप्रतिज्ञं पितरं राजानं पश्य राघव । अद्यैव हि त्वां धर्मात्मा यौवराज्येऽभिषेक्ष्यति ॥ २४
दत्तमासनमालभ्य भोजनेन निमन्त्रितः । मातरं राघवः किंचित् प्रसार्याञ्जलिमब्रवीत ॥ २५
स स्वभावविनीतश्च गौरवाच्च तदानतः । प्रस्थितो दण्डकारण्यमाप्रष्टुमुपचक्रमे ॥ २६
देवि नूनं न जानीषे महद्भयमुपस्थितम । इदं तव च दुःखाय वैदेह्या लक्ष्मणस्य च ॥ २७