पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

यावत्त्वं न वनं यातः पुरादस्मादभित्वरन् । पिता तावन्न ते राम स्नास्यते भोक्ष्यतेऽपि वा ॥ १६
धिक्कष्टमिति निःश्वस्य राजा शोकपरिप्लुतः । मृर्च्छितो न्यपतत्तस्मिन् पर्यङ्के हेमभूषिते ॥ १७
रामोऽप्युत्थाप्य राजानं कैकेय्याभिप्रचोदितः । कशयेवाहतो वाजी वनं गन्तुं कृतत्वरः ॥ १८
तदप्रियमनार्याया वचनं दारुणोदयम । श्रुत्वा गतव्यथो रामः कैकयीं वाक्यमब्रवीत् ॥ १९
नाहमर्थपरो देवि लोकमावस्तुमुत्सहे । विद्धि मामृषिभिस्तुल्यं केवलं धर्ममास्थितम् ॥ २०
यदत्रभवतः किचिच्छक्यं कर्तुं प्रियं मया । प्राणानपि परित्यज्य सर्वथा कृतमेव तत् ॥ २१
न ह्यतो धर्मचरणं किचिदस्ति महत्तरम् । यथा पितरि शुश्रूषा तस्य वा वचनक्रिया ॥ २२
अनुक्तोऽप्यत्रभवता भवत्या वचनादहम । वने वत्स्यामि विजने वर्षाणीह चतुर्दश ॥ २३
न नूनं माय कैकेयि किचिदाशंससे गुणम् । यद्राजानमवोचस्त्वं ममेश्वरतरा सती ॥ २४
यावन्मातरमापृच्छे सीतां चानुनयाम्यहम । ततोऽद्यैव गमिष्यामि दण्डकानां महद्वनम ॥ २५
भरतः पालयेद्राज्यं शुश्रूपेच्च पितुर्यथा । तथा भवत्या कर्तव्यं स हि धर्मः सनातनः ॥ २६
स रामस्य वचः श्रुत्वा भृशं दुःखहतः पिता । शेकादशक्नुवन वक्तुं प्ररुरोद महास्वनम् ॥ २७
वन्दित्वा चरणौ रामो विसंज्ञस्य पितुस्तथा । कैकेय्याश्चाप्यनार्याया निश्चक्राम महाद्युतिः ॥ २८
स रामः पितरं कृत्वा कैकेयी च प्रदक्षिणम । निष्क्रम्यान्तःपुरात्तस्मात् स्वं ददर्श सुहज्जनम ॥ २९
तं बाष्पपरिपूर्णाक्ष पृष्टतोऽनुजगाम ह । लक्ष्मणः परमक्रुद्धः सुमित्रानन्दवर्धनः ॥ ३०
आभिषेचनिकं भाण्डं कृत्वा राम प्रदक्षिणम । शनैर्जगाम सापेक्षो दृष्टि तत्राविचालयन् ॥ ३१
न चास्य महती लक्ष्मी राज्यनाशोऽपकर्षति । लोककान्तस्य कान्तवाच्छीतरश्मेरिव क्षपा ॥ ३२
न वनं गन्तुकामस्य त्यजतश्च वसुंधगम । सर्वलोकातिगम्येव लक्ष्यते चित्तविक्रिया ॥ ३३
प्रतिषिध्य शुभं छत्रं व्यजने च स्वलंकृते । विसर्जयित्वा स्वजनं रथं पौरांस्तथा जनान ॥ ३४
धारयन मनसा दुःखमिन्द्रियाणि निगृह्य च । प्रविवेशात्मवान वेश्म मातुरप्रियर्शसिवान ॥ ३५
सर्वो ह्यभिजनः श्रीमान् श्रीमतः सत्यवादिनः । नालक्षयत रामस्य किचिदाकारमानने ॥ ३६
उचितं च महाबाहुर्न जहौ हर्षमात्मनः । शारदः समुदीर्णाशुश्चन्द्रस्तेज इवात्मजम ॥ ३७
वाचा मधुरया रामः सर्व संमानयञ्जनम । मातुः समीपं धर्मात्मा प्रविवेश महायशाः ॥ ३८
तं गुणैः समतां प्राप्नो भ्राता विपुलविक्रमः । सौमित्रिरनुवव्राज धारयन दुःखमात्मजम ॥ ३९
 प्रविश्य वेश्मानिभृशं मुदान्वितं समीक्ष्य तां चार्थविपत्तिमागताम ।
 न चैव रामोऽत्र जगाम विक्रियां सुहज्जनस्यात्मविपत्तिशङ्कया ॥ ४०

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहस्रिकायां सहिताया
अयोध्याकाण्डे रामप्रतिज्ञा नाम एकोनविंशः सर्गः