पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१४० श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे ३३ ३९ ४० पुरा दैवासुरे युद्धे पित्रा ते मम राघव । रक्षितेन वरौ दत्तौ सशल्येन महारणे ॥ ३२ तत्र मे याचितो राजा भरतस्याभिषेचनम् । गमनं दण्डकारण्ये तव चाथैव राघव ।। ३३ यदि सत्यप्रतिज्ञ्ं त्वं पितरं कर्तुमिच्छसि । आत्मानं च नरश्रेष्ठ मम वाक्यमिदं शृणु ।। ३४ संनिदेशे पितुस्तिष्ट यथानेन प्रतिश्रुतम् । त्वयारण्यं प्रवेष्टव्य नव वर्षाणि पञ्च च ॥ ३५ भरतस्त्वभिषिच्येत यदेतदभिषेचनम् । त्वदर्थे विहितं राज्ञा तेन सर्वेण राघव ।। ३६ सप्त सप्त च वर्षाणि दण्डकारण्यमाश्रितः । अभिषेकमिमं त्यक्त्वा जटाचीरधरो वस ।। ३७ भरतः कोमलपुरे प्रशास्तु वसुधामिमाम् । नानारत्नसमाकीर्णा सवाजिरथकुञ्जराम् ॥ ३८ एतेन त्वां नेरन्द्रोऽयं कारुण्येन समाप्लुतः । शोकसंलिष्टवदनो न शक्नोति निरीक्षितुम् ।। ३९ एतत् कुरु नरेन्द्रस्य वचनं रघुनन्दन । सत्येन महता राम तारयस्व नराधिपम्। ४० इतीव तस्यां परुषं वदन्त्यां न चैव रामः प्रविवेश शोकम् । प्रविव्यथे चापि महानुभावो राजा तु पुत्रव्यसनाभितप्त: ।। ४१ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकाया संहिताया अयोध्याकाण्डे वनवासनिदेशो नाम अष्टादशः सर्गः


एकोनविंशः सर्गः रामप्रतिज्ञा तदप्रियमभित्राघ्रो वचनं मरणोपमम् । श्रुत्वा न विव्यथे रामः कैकेयी चेदमब्रवीत् ।। १ एवमस्तु गमिष्यामि वनं वस्तुमहं त्वित: । जटाचीरधरो राज्ञ: प्रतिज्ञामनुपालयन् ।। २ इदं तु ज्ञातुमिच्छामि किमर्थं मां महीपतिः । नाभिनन्दति दुर्धर्षों यथापूर्वमरिदमः ॥ ३ मन्युर्न च त्वया कार्यों देवि बृमि तवाग्रत: । यास्यामि भव सुप्रीता वनं चीरजटाधरः ।। ४ हितेन गुरुणा पित्रा कृतज्ञेन नृपेण च । नियुज्यमानो विस्रब्ध: किं न कुर्यामहं प्रियम् ॥ ५ अलीकं मानसं त्वेकं हृदयं दहतीव मे । स्वयं यन्नाह मां राजा भरतभ्याभिषेचनम् ।। ६ अहं हि सीतां राज्यं च प्राणानिष्टान् धनानि च । हष्टो भ्रात्रे स्वयं दद्यां भरतायाप्रचोदित: ॥ ७ किं पुनर्मनुजेन्द्रेण स्वयं पित्रा प्रचोदिनः । नव च प्रियकामार्थ प्रतिज्ञामनुपालयन ।| ८ तदाश्वामय ह्रीमन्तं किं त्विदं यन्महीपति: । वसुधासक्तनयनो मन्दमश्रूणि मुञ्चति ।। ९ गच्छन्तु चैवानयितुं दूता: शीघ्रजवैर्हयैः । भरतं मातुलकुलादद्यैव नृपशासनात् ।। १० दण्डकारण्यमेषोऽहमितो गच्छामि सत्वरः । अविचार्य पितुर्वाक्यं समा वस्तुं चतुर्दश ।। ११ सा हृष्टा तस्य तद्वाक्यं श्रुत्वा रामम्य कैकयी । प्रस्थानं श्रद्धधाना हि त्वरयामास राघवम् ।। १२ एवं भवतु यास्यन्ति दूता: शीघ्रजवैर्हयैः । भरतं मातुलकुलादुपातयितुं नराः ।। १३ तव त्वहं क्षमं मन्ये नोत्सुकया विलम्बनम् । राम तस्मादितः शीघ्रं वनं त्वं गन्तुमर्हसि ॥ १४ व्रीडान्वित: स्वयं यच्च नृपस्त्वां नाभिभाषते । नैतत् किंचिनरश्रेष्ठ मन्युरेषोऽपनीयताम् ॥ १५ १ २ ३ ५ ६ ८ ५ १० १५