पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१३२ श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे ४२ द्वारे मनुजमिहस्य सचिवं प्रियदर्शनम् । तमुवाच महातेजाः सूतपुत्रं विशारदम् ॥ ३३ वसिष्ठः क्षिप्रमाचक्ष्व नृपतेर्मामिहागतम् । इमे गङ्गोदकघटा: सागरेभ्यश्च काश्चनाः॥ ३४ औदुम्बरं भद्रपीठमभिषेकार्थमाहृतम् । सर्वबीजानि गन्धाश्च रत्नानि विविधानि च ।। ३५ क्षौद्रं दधि घृतं लाजा दर्भाः सुमनस: पयः । अष्टौ च कन्या रुचिरा मत्तश्च वरवारणः ।। चतुरश्चो रथ: श्रीमांन्नस्त्रिशो धनुरुत्तमम् । वाहनं नरसंयुक्तं छत्रं च शशिमनिभम् ।। ३७ श्वेते च वालव्यजने भृङ्गारश्च हिरण्मयः । हेमदामपिनद्धश्च ककुद्मान् पाण्डरो वृष:॥ ३८ केसरी च चतुर्दष्ट्रो हरिश्रेष्ठो महाबलः । सिंहासनं व्याघ्रतनु: समिद्धश्च हुताशनः ।। ३५ सर्ववादित्रसङ्घाश्च वेश्याश्चालंकृताः स्त्रियः । आचार्या ब्राह्मणा गावः पुण्याश्च मृगपक्षिणः ॥ ४० पौरजानपदश्रेष्ठा नैगमाश्च गणैः सह । एते चान्ये च बहवः प्रीयमाणाः प्रियंवदाः ।। ४१ अभिषेकाय रामस्य सह तिष्ठन्ति पार्थिवैः । त्वरयस्व महाराजं यथा समुदितेऽहनि ।। पुण्ये नक्षत्रयोगे च रामो राज्यमवाप्नुयात् । इति तस्य वच' श्रुत्वा सूतपुत्रो महात्मनः ।। ४३

स्तुवन्नृपतिशार्दूलं प्रविवेश निवेशनम् । तं तु पूर्वोदितं वृद्धं द्वारस्था राजसंमताः ॥ ४४

न शेकुर्गभमंरोद्धं गज्ञः प्रियचिकीर्षयः । स समीपस्थिनो राज्ञस्तामवस्थामज्ञिवान् ।। वाग्भिः परमतुष्टभिरभिष्टोतुं प्रचक्रमे । तत: सृतो यथाकालं पार्थिवस्य निवेशने ॥ ४६ सुमन्त्रः प्राञ्जलिर्भृत्वा तुष्टाव जगतीपतिम् । यथा नन्दति तेजस्वी सागरो भास्करोदये ।। प्रीतः प्रीतेन मनसा तथा नन्दय नः स्वत: । इन्द्रमन्यां तु वेलायामभितुष्टाव मातलिः ।। सोऽजयहानवान सर्वास्ठा त्वां बोधयाम्यहम् । वेदाः सहाङ्गविद्याश्च यथा यात्मभुवं विभम्।।४९ ब्रह्माणं बोधयन्त्यद्य तथा त्वां बोधयाम्यहम् । आदित्यः सह चन्द्रेण यथा भृतधरां शुभाम् ॥ ५० बोधयत्यद्य पृथिवी तथा त्यां बोधयाम्यहम् । उत्तिष्टाशु महाराज कृतकौतुकमङ्गलः ।। ५१ विराजमानो वपुषा मेरोरिव दिवाकरः । सोमसूयौ च काकुत्स्थ शिववैश्रवणापि ।। ५२ वरुणश्चाग्निरिन्द्रश्च विजयं प्रदिशन्तु ते । गता भगवती रात्रिरहः शिवमुपस्थितम् ॥ ५३ बुध्यस्व राजशार्दुल कुरु कार्यमनन्तरम् । उदतिष्टत रामन्य समप्रमभिषेचनम् ।। ५४ पौरजानपदैश्चापि नैगमैश्च कृतात्मभिः । स्वयं वसिष्ठो भगवान् ब्राह्मणैः सह तिष्ठति ।। ५५ क्षिप्रमाज्ञाप्यतां राजन् राघवस्यभिषेचनम् । यथा ह्यपालाः पशवो यथा सेना हानायका।। ५६ यथा चन्द्रं विना रात्रिर्यथा गावो विना यूपम् । एवं हि भविता राष्ट्रं यत्र राजा न दृश्यते ॥ ५७ इति तस्य वचः श्रुत्वा सान्त्वपूर्वमिवार्थवत् । अभ्यकीर्यत शोकेन भूय एव महीपतिः ।। ५८ ततः स राजानं सुतं सन्नहर्षः सुतं प्रति । शोकरक्तक्षणः श्रीमानुद्वीक्ष्योवाच धार्मिकः ।। ५९ वाक्यैस्तु खलु मर्माणि मम भूयो निकृन्तासि । सुमन्त्रः करणं श्रुत्वा दृष्ट्वा दीनं च पार्थिवम् ॥६० प्रगृहीताञ्जलिः प्रहस्तस्माद्देशादपाक्रमत् । यदा वक्तुं स्वयं दैन्यान्न शशाक महीपतिः ॥ ६१ ५९ १. न: पूर्व प्रतिष्यल राजर्षे फन कृत्यमिद तव । इति भषिकं स.