पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३१
चतुर्दशः सर्गः

तथा एलर्कस्तेजस्वी ब्राह्मणे वेदपारगे | याचमाने स्वके नेत्रे उद्धृत्याविमना ददौ ॥
सरितां तु पतिः स्वल्पां मर्यादां सत्यमन्वितः । सत्यानुरोधात् समये वेलां स्वां नातिवर्तते ॥
सत्यमेकपदं ब्रह्म सत्ये धर्मः प्रतिष्ठितः। सत्यमेवाक्षया वेदाः सत्येनैवाप्यते परम् ।।
सत्यं समनुवर्तस्व यदि धर्मे धृता मतिः । स वरः सफलो मेऽस्तु वरदो ह्यसि सत्तम ।।
धर्मस्यैवामिकामार्थ मम चैवाभिचोदनात् । प्रव्राजय सुतं रामं त्रिः खलु त्वां ब्रवीम्यहम् ॥ ९
सभयं च ममाद्येमं यदि त्वं न करिष्यसि । अग्रतस्ते परित्यक्ता परित्यक्ष्यामि जीवितम् ॥
एवं प्रचोदितो राजा कैकेय्या निर्विशङ्कया । नाशकत् पाशमुन्मोक्तुं बलिरिन्द्रकृतं यथा ।। ११
उद्भ्रान्तहृदयश्चापि विवर्णवदनोऽभवत् । स धुर्यों वै परिस्पन्दन् युगचक्रान्तरं यथा ।। १२
विह्वलाभ्यां च नेत्राभ्यां पश्यन्निव स भूपतिः । कृच्छाद्धैर्येण संस्तभ्य कैकेयीमिदमब्रवीत् ।। १३
यस्ते मन्त्रकृतः पाणिग्नौ पापे मया धृतः । तं त्यजामि स्वयं चैव तव पुत्रं सह त्वया ॥ १४
प्रयाता रजनी देवि सूर्यस्योदयन्ं प्रति । अभिषेकाय हि जनस्त्वरयिष्यति मां ध्रुवम् ॥ १५
रामामिषेकसंभारैरतदर्थमुपकल्पितैः । रामः कारयितव्यो मे मृतस्य सलिलक्रियाम् ॥ १६
त्वया सपुत्रया नैव कर्तव्या सलिलक्रिया । व्याहन्तास्यशुभाचारे यदि रामाभिषेचनम् ।। १७
न शक्तोऽद्यस्म्यहं द्रष्टुं दृष्ट्रा पूर्व तथामुखम् । हतहर्ष निरानन्दं पुनर्जनमवाङ्मुखम् ।। १८
तां तथा ब्रुवतस्तस्य भूमिपस्य महात्मनः । प्रभाता शर्वरी पुण्या चन्द्रनक्षत्रशालिनी ।।
ततः पापममाचारा कैकेयी पार्थिवं पुनः । उवाच परुषं वाक्यं वाक्यज्ञा रोषमूर्छिता ।। २०
किमिदं भाषसे राजन् वाक्यं गररुजोपमम् ! आनाययितुमक्लिष्टं पुत्रं रार्मामहाईसि ॥ २१
स्थाप्य राज्ये मम मुतं कृत्वा रामं वनेचरम् । निःसपनां च मां कृत्वा कृतकृत्यो भविष्यसि ॥ २२
म तुन्न इव तीक्ष्णेन प्रतोदेन हयोत्तमः । राजा प्रचोदितोऽभीक्ष्णं कैकेय्या वाक्यमब्रवीत् ॥ २३
धर्मबन्धेन बद्धोऽस्मि नष्टा च मम चेतना । ज्येष्ठं पुत्रं प्रियं रामं द्रष्टुमिच्छामि धार्मिकम् ।। २४
तत: प्रभातां रजनीर्मुदिते च दिवाकरे । पुण्ये नक्षत्रयोगे च मुहूर्तं च समागते ॥
वसिष्ठो गुणसंपन्नः शिष्यैः परिवृतस्तदा । उपगृह्याशु संभारान् प्रविवेश पुरोत्तमम् ।।
सिक्तममार्जितपथां पताकोत्तमभूपिताम् । विचित्रकुसुमाकीर्णा नानास्र्ग्भिर्विराजिताम् ॥
संदृष्टमनुजोपेतां समृद्धविपणापणाम् । महोत्सवसमाकीर्णा राघवार्थे समुत्सुकाम् ।।
चन्दनागरुधूपैश्च सर्वतः परिधूपिताम् । तां पुरीं समतिक्रम्य पुरंदरपुरोपमाम् || २९
ददर्शान्तःपुरं श्रीमान् नानाद्विजगणायुतम् । पौरजानपदाकीर्णं ब्राह्मणैरुपशोभितम् ।।
यज्ञविद्भिः सुसंपूर्णं सदस्यैः परमर्चितैः । तदन्तःपुरमासाद्य व्यतिचक्राम तं जनम् ।। ३१
वसिष्ठः परमप्रीतः परमर्षिभिरावृतः । स त्वपश्यद्विनिष्कान्तं सुमन्त्रं नाम सारथिम् ।। ३२