पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनेकशतसाहस्रं मुक्ताहारं वराङ्गना । अवमुच्य बराहोणि शुभान्याभरणानि च ॥ ५६
ततो हेमोपमा सत्र कुन्जावाक्यवशं गता । संविश्य भूमौ कैकेयी मन्थरामिदमब्रवीत् ।।
इह वा मां मृतां कुब्जे नृपायावेदयिष्यसि । वनं तु गघवे प्राप्ते भरतः प्राप्स्यति क्षितिम् ॥ ५८
न सुवर्णन मे ह्यर्थो न रत्नन च भोजनः । एष में जीवितस्यान्तो रामो यद्यभिषिच्यते ।। ५९
अथो पुनस्तां महिषीं महीक्षितो वचोभिरत्यर्थमहापराक्रमः ।
उवाच कुब्जा भरतस्य मातरं हितं वचो राममुपेत्य चाहितम् ।।
६०
प्रपत्स्यते राज्यमिदं हि राघवो यदि ध्रुवं त्वं ससुता च लप्स्यसे ।
अतो हि कल्याणि यतस्व तत्तथा यथा सुतस्ते भरतोऽभिपेक्ष्यते ।।
तथातिविद्धा महिषी तु कुब्जया समाहता वागिपुभिर्मुहुर्मुहुः ।
निधाय हस्तौ हृदयेऽतिविस्मिता शशंस कुजा कुपिता पुनः पुनः॥
६२
यमम्य का मां विषयं गतामिती निमाम्य कुब्जे प्रतिवेदयिष्यसि ।
वनं गते वा मुचिराय राघवे समृद्धकामो भरतो भविष्यति ।
६३
अहं हि नैवान्तरणानि न जो न चन्दनं नाञ्जनपानभोजनम् ।
न किंचिदिच्छामि न चेह जीवितं न चेदितो गच्छति राघवो वनम् ।।
अथैतदुक्त्वा वचनं सुदारुणं निधाय सर्वाभरणानि भामिनी ।
असंवृतामास्तरणन मेदिनी तदार्धािशश्ये पतितेव किंनरी !!
उदीर्णसंग्म्भतमोवृतानना नथावमुक्तोत्तममाल्यभूषणा ।
नरेन्द्रपत्नी विमना बभूव सा तमोवृता द्यौरित्र मनतारका ॥
इत्याचे श्रीमद्रामायण वाल्मीकीये आदिकाव्ये चतुर्विशतिसहसिकायां संहितायां
अयोध्याकाण्डे रामप्रवासनोपायचिन्ता नाम नवमः सर्ग:
३४ ३५
देशमः सर्गः


कैकेय्यनुनयः
विदर्शिता यदा देवी कुजया पापया भृशम । तदा शेने स्म मा भूमौ दिग्धविद्वेव किंनरी ।।
निश्चित्य मनसा कृत्यं मा सम्यगिति भामिनी । मन्थरायै शनैः सर्वमाचचक्षे विचक्षणा ।।
सा दीना निश्चयं कृत्वा मन्थरावाक्यमोहिता । नागकन्येव निश्वस्य दीर्घमुष्णं च भामिनी ।।
मुहूर्त चिन्तयामास मार्गमात्मसुखावहम् । मा सुहृचार्थकामा च नग्निशम्य सुनिश्चयम ।।
बभूष परमप्रीता सिद्धिं प्राप्येव मन्धरा । अथ सामर्षिता देवी सम्यक्कृत्वा विनिश्चयम् ।।