पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२० श्रीमद्वाल्मीकिरामापणे अयोध्याकाण्डे २८ ४१ ४२ यौ तौ देवासुरे युद्धे वरौ दशरथो ददौ । तौ स्मारय महाभागे सोऽर्थों मा वामतिकमेत् ।। यदा तु ते वरं दद्यात् स्वयमुत्थाप्य राधवः । व्यवस्थाप्य महाराज लमिमं वृणुया वरम ॥ २९ गमं प्रत्राजयारण्ये नव वर्षाणि पञ्च च । भरतः क्रियतां राजा पृथिव्याः पार्थिवर्षभः॥ ३० चतुर्दश हि वर्षाणि गमे प्रत्राजिते वनम् । रूढश्च कृतमूलश्च शेषं स्थास्यति ते सुतः ।। ३१ रामप्रव्राजनं चैव देवि याचस्व तं वरम् । एवं सिध्यन्ति पुत्रस्य मर्वार्थास्तव भामिनि ।। ३२ एवं प्रबाजितश्चैव रामोऽगमो भविष्यति । भरतश्च हतामित्रस्तव राजा भविष्यति ॥ येन कालेन रामश्च वनात् प्रत्यागमिष्यति । तेन कालेन पुत्रस्ते कृतमूलो भविष्यति ।। संगृहीतमनुष्यश्च सुहृद्भिः सार्धमात्मवान् । प्राप्तकालं तु ते मन्ये राजानं वीतसाध्वसा ।। ३५ रामाभिषेकसभारानिगृह्य विनिवर्तय । अनर्थमर्थरूपेण प्राहिता सा ततस्तया ।। हृष्ट्या प्रतीता कैकेयी मन्थरामिदमब्रवीन् । सा हि वाक्येन कुजायाः किशोरीवोत्पथं गता ।। कैकेयी विस्मयं प्रामा परं परमदर्शना । कुजे त्वां नावजानामि श्रेष्ठां श्रेष्ठाभिधायिनीम् ।। पृथिव्यामसि कुब्जानामुत्तमा बुद्धिनिश्चये । त्वमेव तु ममार्थेषु नित्ययुक्ता हितैषिणी ।। ३५ नाहं ममवबुध्येयं कुब्जे राज्ञश्चिकीर्षितम् । सन्ति दुःसंस्थिताः कुटजा वक्राः परमदानणाः ॥ ४० त्वं पद्ममिव वातेन संनता प्रियदर्शना । उरस्तेऽभिनिविष्ठं वै यावत्कन्धं समुन्ननम ।। अधस्तामोदर शातं मुनामिव लाजतम् । परिपूर्ण तु जघनं सुपीनी च पयोधरौ।। विमलेन्दुसमं वक्त्रमहो राजमि मन्थरे । जघनं तव निष्टं ग्शनादामशोभितम् ।। ज भृशमुपन्यम्ने पादौ चाप्यायतावुभौ । त्वमायनाभ्यां सक्थिभ्यां मन्थरे भौमवामिनी ॥ अग्रतो मम गच्छन्ती गजहंसीव गजसे । आसन याः शम्बरे मायाः सहनमसुगधिपे ।। सर्वास्त्वयि निविष्टास्ता भूयश्चान्याः सहस्रशः । तवेदं स्थगु यदीर्घ रथघोणमिवायनम ।। ४६ मतयः क्षत्त्रविद्याश्च मायाश्चात्र वन्ति ते । अत्र ते प्रतिमोक्ष्यामि मालां कुब्जे हिरण्मयीम ॥४७ अभिषिक्ते च भरते राघवे च वनं गते । जात्येन च सुवर्णेन मुनिष्टमेन मन्थरे । लब्धार्था च प्रतीता च लेपयिष्यामि ते स्थगु । मुग्वे च तिलकं चित्रं जातरूपमयं शुभम ।। कारयिष्यामि ते कुब्जे शुभान्याभरणानि च । परिधाय शुभे व देवतेव चरिष्यसि ।। चन्द्रमाह्वयमानेन मुग्वेनाप्रतिमानना ! गमिष्यमि गतिं मुख्यां गर्हयन्ती द्विपजनम ।। ५१ तथापि कुब्जाः कुजायाः सर्वाभरणभूषिताः । पादौ परिचरिष्यन्ति यथैव त्वं मदा मम ।। इति प्रशस्यमाना मा कैकयीमिदमब्रवीत् । शयानां शयने शुभ्रे वेद्याममिशिखामिव ।। गतोदके सेतुबन्धो न कल्याणि विधीयते । उत्तिष्ट कुरु कन्याणि राजानमनुदर्शय ॥ तथा प्रोत्माहिता देवी गत्वा मन्थरथा सह । क्रोधागारं विशालाक्षी सौभाग्यमदगर्विता ।। १. सेत्स्यन्ति प्रज्ञा २. इदमर्थम् क. नास्ति। ६. सुन्दरि प्र.

५२ अन्तर्वदिश्व प्र. रूढमूलः छ. ४.