पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बसमा सर्गः नवमः सर्गः worm0 ७ ८ रामप्रवासनोपायचिन्ता एवमुक्ता तु कैकेयी क्रोधेन ज्वलितानना । दीर्घमुष्णं विनिश्वस्य मन्थरामिदमब्रवीत् ।। पाच राममितः क्षिप्रं वनं प्रस्थापयाम्यहम् । यौवराज्येन भरतं क्षिप्रमेवाभिषेचये ॥ इच त्विदानी सपश्य केनोपायेन मन्थरे । भरतः प्रोप्नुयाद्राज्यं न तु रामः कथंचन ॥ एवमुका वया देव्या मन्थरा पापदर्शिनी । रामार्थमुपहिंसन्ती कैकेयीमिदमब्रवीत् ॥ इन्तेदानी प्रवक्ष्यामि कैकेयि भूयतां च मे । यथा ते भरतो राज्यं पुत्रः प्राप्स्यति केवलम् ।। किं न स्मरसि कैकेयि स्मरन्ती वा निगृहसे । यदुच्यमानमात्मार्थ मत्तस्त्वं श्रोतुमिच्छसि । मयोच्यमानं यदि ते श्रोतुं छन्दो विलासिनि । श्रूयतामभिधास्यामि श्रुत्वा चापि विमृश्यताम् । श्रुत्वैवं वचनं तस्या मन्थरायास्तु कैकयी। किंचिदुत्थाय शयनान् स्वास्तीर्णादिदमब्रवीत् ।। कथय त्वं ममोपायं केनोपायेन मन्थरे । भरतः प्राप्नुयाद्रज्यं न तु रामः कथंचन ॥ ९ एवमुक्ता तु कैकेय्या मन्थरा पापदर्शिनी । रामार्थमुपहिंसन्ती कुब्जा वचनमब्रवीत् ।। पुरा दैवासुरे युद्धे सह राजर्षिभिः पतिः । अगच्छत्वामुपादाय देवराजस्य साह्यकृत् ।। ११ दिशमास्थाय वै देवि दक्षिणां दण्डकान प्रति । वैजयन्तमिति ख्यातं पुरं यत्र तिमिध्वजः ॥ १२ स शम्बर इति ख्यातः शतमायो महासुरः । ददौ शक्रस्य संग्रामं देवसबैरनिर्जितः ।। १३ सस्मिन् महति संग्रामे पुरुषान क्षतविक्षतान् । रात्रौ प्रसुप्तान नन्ति स्म तरसासाथ राक्षसाः ॥ १४ तत्राकरोन्महशुद्धं राजा दशरथस्तदा । असुरैश्च महाबाहुः शस्त्रैश्च शकलीकृतः ।। अपवाह्य त्वया देवि संग्रामानष्टचेतनः । तत्रापि विक्षतः शनैः पतिस्ते रक्षितस्त्वया ॥ तुष्टेन तेन दत्तौ ते द्वौ वरौ शुभदर्शने । स त्वयोक्तः पतिर्देवि यदेच्छेयं तदा वरौ ॥ गृहीयामिति तसेन तथेत्युक्त महात्मना । अनभिज्ञा यहं देवि त्वयैव कथिता पुरा । कयैषा तव तु स्नेहान्मनसा धार्यते मया । रामाभिषेकसभारामिगृह्य विनिवर्तय ॥ १९ वौ च याचस्व भर्तारं भरतस्याभिषेचनम् । प्रधाजनं च रामस्य त्वं वर्षाणि चतुर्दश । चतुर्दश हि वर्षाणि रामे प्रत्राजिते वनम् । प्रजाभावगतस्नेहः स्थिरः पुत्रो भविष्यति ।। क्रोधागारं प्रविश्याच सुद्धवावपतेः सुते । शेष्वानन्तर्हितायां त्वं भूमौ मलिनवासिनी ॥ मा स्मैनं प्रत्युदीक्षेथा मा चैनमभिभाषयाः । रुदन्ती पार्थिवं दृष्ट्रा जगत्यां शोकलालसा ।। २३ दयिता त्वं सदा भर्तुरत्र मे नास्ति संशयः । त्वत्कृते स महाराजो विशेदपि हुताशनम् ॥ न त्वां क्रोधयितुं शको न बुद्धां प्रत्युतीक्षितुम् । तव प्रियार्थ राजा हि प्राणानपि परित्यजेत् ।। २५ न अतिक्रमितुं शक्तस्तव वाक्यं महीपतिः । मन्दस्वभावे बुध्यस्व सौभाग्यदलमात्मनः ।। मणिमुकासुवर्णानि रखानि विविधानि च । दद्याइशरयो राजा मा म तेषु मनः कृथाः ।। २० २२ २४ २६ २७ १. कैकेवि प्र.